॥
श्रीरामरक्षास्तोत्रम् ॥
श्रीगणेशायनम:
।
अस्य
श्रीरामरक्षास्तोत्रमन्त्रस्य ।बुधकौशिक ऋषि: ।
श्रीसीतारामचंद्रोदेवता
।अनुष्टुप् छन्द: ।
सीता
शक्ति: ।श्रीमद्हनुमान् कीलकम् ।
श्रीसीतारामचंद्रप्रीत्यर्थे
जपे विनियोग: ॥
॥
अथ ध्यानम् ॥
ध्यायेदाजानुबाहुं
धृतशरधनुषं बद्दद्पद्मासनस्थं ।
पीतं
वासोवसानं नवकमलदल-स्पर्धिनेत्रं प्रसन्नम् ॥
वामाङ्कारूढसीता
मुखकमलमिल-ल्लोचनं नीरदाभं ।
नानालङ्कारदीप्तं
दधतमुरुजटा-मण्डनं रामचंद्रम् ॥
॥
इति ध्यानम् ॥
चरितं
रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं
पुंसां महापातकनाशI7n jin ki utcनम् ॥१॥
ध्यात्वा
नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणॊपेतं
जटामुकुटमण्डितम् ॥२॥
सासितूणधनुर्बाणपाणिं
नक्तं चरान्तकम् ।
स्वलीलया
जगत्त्रातुमाविर्भूतमजं विभुम् ॥३॥
रामरक्षां
पठॆत्प्राज्ञ: पापघ्नीं सर्वकामदाम् ।
शिरो
मे राघव: पातु भालं दशरथात्मज: ॥४॥
कौसल्येयो
दृशौ पातु विश्वामित्रप्रिय: श्रुती ।
घ्राणं
पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥
जिव्हां
विद्दानिधि: पातु कण्ठं भरतवंदित: ।
स्कन्धौ
दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ॥६॥
करौ
सीतापति: पातु हृदयं जामदग्न्यजित् ।
मध्यं
पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥
सुग्रीवेश:
कटी पातु सक्थिनी हनुमत्प्रभु: ।
ऊरू
रघुत्तम: पातु रक्ष:कुलविनाशकृत् ॥८॥
जानुनी
सेतुकृत्पातु जङ्घे दशमुखान्तक: ।
पादौ
बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥
एतां
रामबलोपेतां रक्षां य: सुकृती पठॆत् ।
स
चिरायु: सुखी पुत्री विजयी विनयी भवेत् ॥१०॥
पातालभूतलव्योम
चारिणश्छद्मचारिण: ।
न
द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥
रामेति
रामभद्रेति रामचंद्रेति वा स्मरन् ।
नरो
न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥
जगज्जेत्रैकमन्त्रेण
रामनाम्नाभिरक्षितम् ।
य:
कण्ठे धारयेत्तस्य करस्था: सर्वसिद्द्दय: ॥१३॥
वज्रपंजरनामेदं
यो रामकवचं स्मरेत् ।
अव्याहताज्ञ:
सर्वत्र लभते जयमंगलम् ॥१४॥
आदिष्टवान्
यथा स्वप्ने रामरक्षामिमां हर: ।
तथा
लिखितवान् प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥
आराम:
कल्पवृक्षाणां विराम: सकलापदाम् ।
अभिरामस्त्रिलोकानां
राम: श्रीमान् स न: प्रभु: ॥१६॥
तरुणौ
रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ
चीरकृष्णाजिनाम्बरौ ॥१७॥
फलमूलशिनौ
दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ
दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥
शरण्यौ
सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्ष:कुलनिहन्तारौ
त्रायेतां नो रघुत्तमौ ॥१९॥
आत्तसज्जधनुषा
विषुस्पृशा वक्षया शुगनिषङ्ग सङिगनौ ।
रक्षणाय
मम रामलक्ष्मणा वग्रत: पथि सदैव गच्छताम् ॥२०॥
संनद्ध:
कवची खड्गी चापबाणधरो युवा ।
गच्छन्मनोरथोSस्माकं राम: पातु सलक्ष्मण: ॥२१॥
रामो
दाशरथि: शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थ:
पुरुष: पूर्ण: कौसल्येयो रघुत्तम: ॥२२॥
वेदान्तवेद्यो
यज्ञेश: पुराणपुरुषोत्तम: ।
जानकीवल्लभ:
श्रीमानप्रमेय पराक्रम: ॥२३॥
इत्येतानि
जपेन्नित्यं मद्भक्त: श्रद्धयान्वित: ।
अश्वमेधाधिकं
पुण्यं संप्राप्नोति न संशय: ॥२४॥
रामं
दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवन्ति
नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥
रामं
लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुंदरम् ।
काकुत्स्थं
करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं
सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम् ।
वन्दे
लोकभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥
रामाय
रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय
नाथाय सीताया: पतये नम: ॥२७॥
श्रीराम
राम रघुनन्दन राम राम । श्रीराम राम भरताग्रज राम राम ।
श्रीराम
राम रणकर्कश राम राम । श्रीराम राम शरणं भव राम राम ॥२८॥
श्रीरामचन्द्रचरणौ
मनसा स्मरामि । श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ
शिरसा नमामि । श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥
माता
रामो मत्पिता रामचंन्द्र: । स्वामी रामो मत्सखा रामचंद्र: ।
सर्वस्वं
मे रामचन्द्रो दयालु । नान्यं जाने नैव जाने न जाने ॥३०॥
दक्षिणे
लक्ष्मणो यस्य वामे च जनकात्मजा ।
पुरतो
मारुतिर्यस्य तं वन्दे रघुनंदनम् ॥३१॥
लोकाभिरामं
रनरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं
करुणाकरंतं श्रीरामचंद्रं शरणं प्रपद्ये ॥३२॥
मनोजवं
मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं
वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥
कूजन्तं
रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य
कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥
आपदामपहर्तारं
दातारं सर्वसंपदाम् ।
लोकाभिरामं
श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥
भर्जनं
भवबीजानामर्जनं सुखसंपदाम् ।
तर्जनं
यमदूतानां रामरामेति गर्जनम् ॥३६॥
रामो
राजमणि: सदा विजयते रामं रमेशं भजे ।
रामेणाभिहता
निशाचरचमू रामाय तस्मै नम: ।
रामान्नास्ति
परायणं परतरं रामस्य दासोSस्म्यहम् ।
रामे
चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥३७॥
राम
रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम
तत्तुल्यं रामनाम वरानने ॥३८॥
इति
श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम
आपल्या सनातन वैदिक धर्मामध्ये हजारो वर्षांपासून देव-देवता, ऋषी- मुनी यांनी लोक कल्याणार्थ बरीच स्तोत्र, मंत्र, श्लोक, वेद-पुराणे, आरत्या, विविध व्रत वैकल्ये, पूजा- विधी इत्यादी लिहून ठेवले आहेत. असे नित्योपयोगी लेखन आम्ही आपल्यासाठी घेऊन आलो आहोत. त्याचा आपल्या आराध्य देवते प्रमाणे नित्यपाठ केल्यास आपल्यास इच्छित फलप्राप्ती होते.
Blog Views
॥ श्रीरामरक्षास्तोत्रम् ॥
दीप ज्योती मंत्र (शुभं करोति कल्याणमारोग्यं)
दीप ज्योती मंत्र शुभं करोति कल्याणमारोग्यं धनसंपदा। शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तुते॥ दीपज्योतिः परब्रह्म दीपज्योतिर्जनार्दनः। दीपो...
Popular Blogs
-
।। तुळशीच्या लग्नाची मंगलाष्टके ।। स्वस्ति श्री गणनायकं गजमुखं , मोरेश्वरं सिद्धिदं । बल्लाळो मुरुडं विनायकमहं , चिन्तामणि स्थेव...
-
खंडोबाचे नवरात्र नमोमल्लारि देवाय भक्तानां प्रेमदायिने I म्हाळसापतिं नमस्तुभ्यं मैरालाय नमोनमः II मल्लारिं जगतान्नाथं त्रिपुरा...
-
आरती नित्यानंदची श्री सचिदानंद सदगुरू साईनाथ महाराज की जय जय जय आरती नित्यानंद राया। सगुणारूपी गोबिंदा।। प्रथमा दत्तघेसी। द्...