श्रीयोगेश्र्वरीकवचम्
श्री गणेशाय नमः। श्री सरस्वत्यै नमः । श्री देव्युवाच ।
भगवन् सर्वमाख्यातं मंत्रतंत्रादिकं त्वया ।
योगिन्याः कवचं देव न कुत्रापि प्रकाशितम् ॥ १ ॥
श्रोतुमिच्छामि यत्नेन कृपापात्रं तवास्म्यहम् ।
कथयस्व महादेव यद्दहं प्राणवल्लभा ॥ २ ॥
ईश्र्वर उवाच ।
श्रृणु देवी महाविद्दां सर्व देवर्षिपूजिताम् ।
यस्याः कटाक्षमात्रेण त्रैलोक्यविजयी हरिः ॥ ३ ॥
सृष्टिं वितनुते ब्रह्मा संहर्ताsहं
तथैव च ।
यस्याः स्मरणमात्रेण देवाः देवत्वमाप्नुयुः ॥ ४ ॥
रहस्यं श्रृणु वक्ष्यामि योगिन्याः प्राणवल्लभे ।
त्रैलोक्यसुंदरं नामं कवचं मंत्रविग्रहम् ॥ ५ ॥
श्री योगेश्र्वरीकवचमंत्रस्य महादेव ऋषिः।
अनुष्टुप् छंदः । श्री योगेश्र्वरी देवता ।
ऐं बीजम् । र्हीं शक्तिः । श्रीं कीलकम् ।
श्रीयोगेश्र्वरीप्रसादप्रीत्यर्थे । जपे विनियोगः ।
अथ न्यासः ।
महादेव ऋषये नमः शिरसि ।
अनुष्टुप् छंदसे नमः मुखे ।
श्री योगेश्र्वरी देवतायै नमः ह्रदये ।
ऐं बीजाय नमः दक्षिणस्तने ।
र्हीं शक्तये नमः वामस्तने |
श्रीं कीलकाय नमः नाभौ ।
ऐं अंगुष्ठाभ्यां नमः ह्रदयाय नमः।
र्हीं तर्जनीभ्यां नमः शिरसे स्वाहा ।
श्रीं मध्यमाभ्यां नमः शिखायै वषट् ।
ऐं अनामिकाभ्यां नमः कवचाय हुम् ।
र्हीं कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौशट्
।
श्रीं करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् ।
ध्यान
खड्गं पात्रं च मुसलं लांगलं च बिभर्ति सा ।
आख्याता रक्तचामुंडा देवी योगेश्र्वरीति च ॥ १ ॥
मानसोपचारैः संपूज्य ।
लं पृथिव्यात्मकं श्रीयोगेश्र्वरीदेवतायै नमः गंधं परिकल्पयामि ।
हं आकाशात्मकं श्रीयोगेश्र्वरीदेवतायै नमः पुष्पं परिकल्पयामि ।
यं वाय्वात्मकं श्रीयोगेश्र्वरीदेवतायै नमः धूपं परिकल्पयामि ।
रं तेजात्मकं श्रीयोगेश्र्वरीदेवतायै नमः दीपं परिकल्पयामि ।
वं अमृतात्मकं श्रीयोगेश्र्वरीदेवतायै नमः नैवेद्दं परिकल्पयामि ।
सं सर्वात्मकं श्रीयोगेश्र्वरीदेवतायै नमः तांबुलादि सर्वोपचारान्
परिकल्पयामि ।
अथ कवचम्
शिरो मे शांकरी पातु मूर्ध्नि नारायणी तथा ।
ऐं बीजं भालदेशे च र्हीं बीजं दक्षिणनेत्रे ॥
१ ॥
श्रीं बीजं वामनेत्रे च दक्षिणश्रोत्रे परास्मृता ।
वामश्रोत्रे नारसिंही नासामूलं च खड्गिनी ॥ २ ॥
नासिकां मानिनी पातु मुखं मेsवतु चाम्बिका ।
कपोलौ भूतसंहारी चिबुकं भ्रामरी तथा ॥ ३ ॥
कंण्ठं मे चण्डिका पातु ह्रदयं विंध्यवासिनी ।
उदरे गिरिजा पातु नाभिं मेsवतु भोगिनी ॥ ४ ॥
शुंभिनी पृष्ठदेशे तु स्कन्धयोः शूलधारिणी ।
हस्तयोर्योगिनी रक्षेत् कंबुकण्ठी गलं तथा ॥ ५ ॥
कट्ट्यां च सुन्दरी रक्षेत् गुह्यं गुह्येश्र्वरी तथा ।
कुंजिका पातु मे मेढ्ं पायुदेशं च शांभवी ॥ ६ ॥
भद्रकाली पातु चोरु जान्वो मेsवतु कालिका ।
जंघे पातु महाभीमा गुल्फाववतु शूलिनी ॥ ७ ॥
पादयोः श्रीधरी रक्षेत् सर्वांगेsवतु भोगिनी ।
रक्तमज्जावसामांसान्यस्थिमेदांसि भैरवी ॥ ८ ॥
चामुंडा चैव वाराही कौमारी वैष्णवी तथा ।
माहेश्र्वरी च सर्वाद्दा जयश्री मंड्गला तथा ॥ ९ ॥
रक्षतुश्र्वायुधैर्दिक्षु मां विदिक्षु यथा तथा ।
इतीदं कवचं दिव्यं षण्मासात् सर्वसिध्दिदम् ॥ १० ॥
फलश्रुतिः
स्मरणात्कवचस्यास्य जयः सर्वत्र जायते ।
राजद्वारे स्मशाने च भूतप्रेताभिचारके ॥ ११ ॥
बंधने च महादुःखे जपेच्छत्रुसमागमे ।
प्रयोगं चाभिचारं च यो नरः कर्तृमिच्छति ॥ १२ ॥
आयुताश्र्च भवेत् सिद्धिः पठनात्कवचस्य तु ।
सर्वत्र लभते कीर्ति श्रीमान भवति धार्मिकः ॥ १३ ॥
भूर्जे विलिख्य कवचं गुटिका यस्तु धारयन् ।
मंत्रसिद्धिमवाप्नोति योगेश्र्वर्याः प्रसादतः ॥ १४ ॥
पुत्रवान् धनवान् श्रीमान नानाविद्दानिधिर्भवेत ।
अष्टोत्तरशतं जप्त्वा पुरश्र्चरणमस्य वै ॥ १५ ॥
सिद्धर्थं सर्वदा कुर्यात् योगिनी प्रीतिभाक् भवेत् ।
ब्रह्मास्त्रादीनि शाम्यन्ति तद्गात्रस्परशनात्ततः ॥ १६ ॥
इदं कवचमज्ञात्वा योगिनी भजते नरः ।
शतलक्षं जपित्वाsपि तस्य विद्दा न सिद्धयति ॥
१७ ॥
इति श्रीरुद्रयामले बहुरुपाष्टकप्रस्तावे ईश्र्वरपार्वतीसंवादे
योगेश्र्वरी कवचं संपूर्णम् ॥