श्रीपाद अष्टकं
वेदान्तवेदोद्वर योगीरूपं |
जगत्प्रकाशं सुरलोकपूज्यं |
इष्टार्थसिध्दि करुणाकरेशं |
श्रीपादराजं शरणं प्रपद्ये ||१ ||
योगीशरूपं परमात्मवेषं |
सदानुरागं सहकार्यरूपं |
वरप्रसादं विबुधैकसेव्यं |
श्रीपादराजं शरणं प्रपद्ये ||२ ||
काषायवस्त्रं करदंडधारिणं |
कमण्डलुं पद्मकरेण शंखम् |
चक्रंगदांभूषित भूषणाढ्यम् |
श्रीपादराजं शरणं प्रपद्ये ||३ ||
भूलोकसारं भुवनैकनाथं |
नाथादिनाथं नरलोकनाथम् |
कृष्णावतारं करुणाकटाक्षं |
श्रीपादराजं शरणं प्रपद्ये ||४ ||
लोकाभिरामं गुणभूषणाढ्यम् |
तेजोमुनि श्रेष्ठमुनिर्वरेण्यं |
समस्त दुःखानि भयानि शांतं |
श्रीपादराजं शरणं प्रपद्ये ||५ ||
कृष्णासुतीरे वसतिप्रसिध्दं |
श्रीपादश्रीवल्लभ योगमूर्तिम् |
सर्वैर्जनैश्चिंतित कल्पवृक्षं |
श्रीपादराजं शरणं प्रपद्ये ||६ ||
मंत्राब्धिराजं युतिराजपुण्यं |
त्रैलोक्यनाथं जनसेव्यनार्थं |
आनंदचित्तं अखिलात्मतेजं |
श्रीपादराजं शरणं प्रपद्ये ||७ ||
मंत्रानुगम्यं महानिर्वितेजं |
महत्प्रकाशं महाशांतमूर्तिम् |
त्रैलोक्यचित्तं अखिलात्मतेजसं |
श्रीपादराजं शरणं प्रपद्ये ||८ ||
श्रीपादष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ||
कोटिजन्म कृतं पापं स्मरणेन विनश्यति ||
*|| श्रीदत्तात्रेयार्पणमस्तु ||*