*॥ दशश्लोकीस्तुती ॥*
साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः । साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥ १॥
विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयं यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः । स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्तत- स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ २॥
क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं कोदण्डः कनकाचलो हरिरभूद्बाणो विधिः सारथिः । तूणीरो जलधिर्हयाः श्रुतिचयो मौर्वी भुजङ्गाधिप- स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ३॥
येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैः समं येन स्वीकृतमब्जसंभवशिरः सौवर्णपात्रैः समम् । येनाङ्गीकृतमच्युतस्य नयनं पूजारविन्दैः समं तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ४॥
गोविन्दादधिकं न दैवतमिति प्रोच्चार्य हस्तावुभा- वुद्धृत्याथ शिवस्य संनिधिगतो व्यासो मुनीनां वरः । यस्य स्तम्भितपाणिरानतिकृता नन्दीश्वरेणाभव- त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ५॥
आकाशश्चिकुरायते दशदिशाभोगो दुकूलायते शीतांशुः प्रसवायते स्थिरतरानन्दः स्वरूपायते । वेदान्तो निलयायते सुविनयो यस्य स्वभावायते तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ६॥
विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय- न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वये । सम्पूज्यासुरसंहतिं विदलयंस्त्रैलोक्यपालोऽभव- त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ७॥
शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने । मिथ्यावाचमपूज्यमेव सततं हंसस्वरूपं विधिं तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ८॥ यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते । ओंकारार्थविवेचनी श्रुतिरियं चाचष्ट तुर्यं शिवं तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ९॥
विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदा संभूताज्जलधेर्विषात्परिभवं प्राप्तास्तदा सत्वरम् । तानार्ताञ्शरणागतानिति सुरान्योऽरक्षदर्धक्षणा- त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ १०॥
इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवत्पाद कृतौ दशश्लोकीस्तुतिः सम्पूर्णा ॥