Blog Views

|| श्रीज्ञानेश्वरस्तोत्रम् ||

|| श्रीज्ञानेश्वरस्तोत्रम् ||

सद्गुरुं सच्चिदानन्दं केवलं करुणाकरम् ।
ज्ञानयोगेश्वरं वन्दे ज्ञानदेवं पुनः पुनः ॥१॥

वाङ्मनोबुद्धिभावानामतीतं परमेश्वरम् ।
निष्कलं सगुणं वन्दे ज्ञानदेवं पुनः पुनः ॥२॥

निर्मलं सदयं शांतं प्रणताखिलमङ्लम् ।
ज्ञानैकरूपिणं वन्दे ज्ञानदेवं पुनः पुनः ॥३॥

भक्तिकल्पतरोर्मूलं बीजं साधनसम्पदः ।
सर्वलोकहितं वन्दे ज्ञानदेवं पुनः पुनः ॥४॥

आविर्भूतो हरि: साक्षात् पावने गौतमीतटे ।
रुपेण यस्य तं वन्दे ज्ञानदेवं पुनः पुनः ॥५॥

निवृत्तिमार्गिणो मुक्ति: सोपानसुलभा कृता ।
कृपया यस्य तं वन्दे ज्ञानदेवं पुनः पुनः ॥६॥

ज्ञानं भक्तिरसं यस्य यद्भक्तिर्ज्ञानभास्वती ।
तमद्वैतपरं वन्दे ज्ञानदेवं पुनः पुनः ॥७॥

दृष्टि: कृपावती यस्य नित्यं पीयूषवर्षिणी
नताश्रयांघ्रिं तं वन्दे ज्ञानदेवं पुनः पुनः ॥८॥

सुधाविजयिनी तापशमनी लोकपावनी
भारती यस्य तं वन्दे ज्ञानदेवं पुनः पुनः ॥९॥

भावार्थदीपिका यस्य अनुभवामृतजीवनी
तं बुद्धिभास्करं वन्दे ज्ञानदेवं पुनः पुनः ॥१०॥

शरदिन्दुमनोज्ञाङ्गं कमलायतलोचनम् ।
पद्मासनस्थितं वन्दे ज्ञानदेवं पुनः पुनः ॥११॥

प्रसन्नं परमोदारं वरदं सुस्मिताननम् ।
आलन्दिवल्लभं वन्दे ज्ञानदेवं पुनः पुनः ॥१२॥

सुहृदं सर्वभूतानां मातरं पितरं प्रभूम् ।
प्रेमलं वत्सलं वन्दे ज्ञानदेवं पुनः पुनः ॥१३॥

बुद्धिनद्या: शरत्कालं प्रग्रहं चित्तवाजिनः
पापतापहरं वन्दे ज्ञानदेवं पुनः पुनः ॥१४॥

हे तात ! भवतैवोक्तं शिशोर्माता स्वयं हिता ।
चित्तवृत्ते: समाधानं बुद्धे: स्थैर्यं सदाsस्तु मे ॥१५॥

समर्थ रामदास रचित || श्री नरसिंह पंचक ||

|| श्री नरसिंह पंचक || नरहरी नरपाळें भक्तपाळें भुपाळें। प्रगट रूप विशाळें दाविलें लोकपाळें। खवळत रिपुकाळें काळकाळें कळाळें। तट तट तट स्तंभि ...

Popular Blogs