Blog Views

स्तोत्र

भृगुर्वसिष्ठ: क्रतुरङ्गिराश्च मनु: पुलस्त्य: पुलहश्च गौतम: ।
रेभ्यो मरीचिश्च्यवनश्च दक्ष: कुर्वन्तु सर्वे मम सुप्रभातम् ॥१॥

सनत्कुमार: सनक: सनन्दन: सनातनोऽप्यासुरिपिङ्गलौ च ।
सप्त स्वरा: सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम् ॥२॥

सप्तार्णवा: सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त ।
भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ॥३॥

पृथ्वी सगन्धा सरसास्तथाप: स्पर्शी च वायुर्ज्वलितं च तेज: ।
नभ: सशब्दं महता सहैव कुर्वन्तु सर्वे मम सुप्र भातम् ॥४॥

इत्थं प्रभाते परमं पवित्रं पठेत्स्मरेद्वा श्रृणुयाच्च तद्वत् ।
दुःस्वप्ननाशस्त्विह सुप्रभातं भवेच्च नित्यं भगवत्प्रसादात् ॥५॥

समर्थ रामदास रचित || श्री नरसिंह पंचक ||

|| श्री नरसिंह पंचक || नरहरी नरपाळें भक्तपाळें भुपाळें। प्रगट रूप विशाळें दाविलें लोकपाळें। खवळत रिपुकाळें काळकाळें कळाळें। तट तट तट स्तंभि ...

Popular Blogs