|| शिवसहस्रनामस्तोत्रं शिवपुराणान्तर्गतम् ॥ सूत उवाच । श्रूयतां भो ऋषिश्रेष्ठ येन तुष्टो महेश्वरः । तदहं कथयाम्यद्य शिवं नामसहस्रकम् ॥ १॥ श्री विष्णुरुवाच । शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः । अर्थिगम्यः सदाचारः शर्वः शम्भुर्महेश्वरः ॥ २॥ चन्द्रापीडश्चन्द्रमौलिर्विश्वं विश्वम्भरेश्वरः । वेदान्तसारसन्दोहः कपाली नीललोहितः ॥ ३॥ ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः । अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ॥ ४॥ ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः । वामदेवो महादेवः पटुः परिवृढो दृढः ॥ ५॥ विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः । सर्वप्रमाणसंवादी वृषाङ्को वृषवाहनः ॥ ६॥ ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः । तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः ॥ ७॥ पाठभेद ब्रह्माण्डहृज्जटी कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः । पाठभेद प्रणतात्मकः उन्नद्ध्रः पुरुषो जुष्यो दुर्वासाः पुरशासनः ॥ ८॥ पाठभेद उन्नध्रः दिव्यायुधः स्कन्दगुरुः परमेष्ठी परात्परः । अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥ ९॥ कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमो मृदुः । समाधिवेद्यः कोदण्डी नीलकण्ठः परश्वधीः ॥ १०॥ विशालाक्षो मृगव्याधः सुरेशस्सूर्यतापनः । धर्मधाम क्षमाक्षेत्रं भगवान् भगनेत्रभित् ॥ ११॥ पाठभेद धर्माध्यक्षः उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः परन्तपः । दाता दयाकरो दक्षः कपर्दी कामशासनः ॥ १२॥ श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः । लोककर्ता मृगपतिर्महाकर्ता महौषधिः ॥ १३॥ सोमपोमृतपः सौम्यो महातेजा महाद्युतिः । तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः ॥ १४॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी ॥ १५॥ अजातशत्रुरालोकसम्भाव्यो हव्यवाहनः । लोककारो वेदकरः सूत्रकारः सनातनः ॥ १६॥ महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः । पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत् सुधीः ॥ १७॥ धातृधामा धामकरः सर्वगः सर्वगोचरः । ब्रह्मसृग्विश्वसृक् सर्गः कर्णिकारप्रियः कविः ॥ १८॥ शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः । गङ्गाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः ॥ १९॥ विजितात्मा विधेयात्मा भूतवाहनसारथिः । सगणो गणकायश्च सुकीर्तिश्छिन्नसंशयः ॥ २०॥ कामदेवः कामपालो भस्मोद्धूलितविग्रहः । भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ॥ २१॥ समावर्तोऽनिवृत्तात्मा धर्मपुञ्जः सदाशिवः । अकल्मषश्च पुण्यात्मा चतुर्बाहुर्दुरासदः ॥ २२॥ दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः । अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ॥ २३॥ शुभाङ्गो लोकसारङ्गो जगदीशो जनार्दनः । भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ २४॥ पाठभेद भस्मशुद्धिकरोऽभीरु असाध्यः साधुसाध्यश्च भृत्यमर्कटरूपधृक् । हिरण्यरेताः पौराणो रिपुजीवहरो बली ॥ २५॥ महाह्रदो महागर्तः सिद्धो बृन्दारवन्दितः । व्याघ्रचर्माम्बरो व्याली महाभूतो महानिधिः ॥ २६॥ अमृतोमृतपः श्रीमान् पाञ्चजन्यः प्रभञ्जनः । पाठभेद पञ्चजन्यः पञ्चविंशतितत्त्वस्थः पारिजातः परात्परः ॥ २७॥ सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः । वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥ २८॥ आश्रमः क्षपणः क्षामो ज्ञानवानचलेश्वरः । पाठभेद श्रमणः प्रमाणभूतो दुर्ज्ञेयः सुवर्णो वायुवाहनः ॥ २९॥ धनुर्धरो धनुर्वेदो गुणः शशिगुणाकरः । सत्यः सत्यपरोऽदीनो धर्माङ्गो धर्मशासनः ॥ ३०॥ अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः । अभिचार्यो महामायो विश्वकर्मविशारदः ॥ ३१॥ वीतरागो विनीतात्मा तपस्वी भूतभावनः । उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ॥ ३२॥ कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः । तरस्वी तारको धीमान् प्रधानः प्रभुरव्ययः ॥ ३३॥ लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः । पाठभेद लोकपालोऽन्तरात्मा च वेदशास्त्रार्थतत्वज्ञो नियमो नियताश्रयः ॥ ३४॥ चन्द्रः सूर्यः शनिः केतुर्वराङ्गो विद्रुमच्छविः । भक्तिवश्यः परं ब्रह्मा मृगबाणार्पणोऽनघः ॥ ३५॥ पाठभेद परब्रह्म अद्रिरद्र्यालयः कान्तः परमात्मा जगद्गुरुः । सर्वकर्मालयस्तुष्टो मङ्गल्यो मङ्गलावृतः ॥ ३६॥ महातपा दीर्घतपाः स्थविष्ठः स्थविरो धृवः । अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ ३७॥ संवत्सरकरो मन्त्रः प्रत्ययः सर्वतापनः । अजः सर्वेस्वरः सिद्धो महातेजा महाबलः ॥ ३८॥ योगी योग्यो महारेताः सिद्धिः सर्वादिरग्रहः । वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ ३९॥ सुकीर्तिः शोभनः स्रग्वी वेदाङ्गो वेदविन्मुनिः । भ्राजिष्णुर्भोजनं भोक्ता लोकनाथो दुराधरः ॥ ४०॥ अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् । कमण्डलुधरो धन्वी ह्यवाङ्मनसगोचरः ॥ ४१॥ अतीन्द्रियो महामायः सर्ववासश्चतुष्पथः । कालयोगी महानादो महोत्साहो महाबलः ॥ ४२॥ महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः । निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥ ४३॥ अनिर्देश्यवपुः श्रीमान् सर्वाचार्यमनोगतिः । बहुश्रुतिर्महामायो नियतात्मा ध्रुवोऽध्रुवः ॥ ४४॥ ओजस्तेजो द्युतिधरो जनकः सर्वशासकः । नृत्यप्रियो नृत्यनित्यः प्रकाशात्मा प्रकाशकः ॥४५॥ पाठभेद नित्यनृत्यः स्पष्टाक्षरो बुधो मन्त्रः समानः सारसम्प्लवः । युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ॥ ४६॥ इष्टो विशिष्टः शिष्टेष्टः सुलभः सारशोधनः । तीर्थरूपस्तीर्थनामा तीर्थदृश्यस्तु तीर्थदः ॥ ४७॥ अपां निधिरधिष्ठानं विजयो जयकालवित् । पाठभेद दुर्जयो प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ४८॥ विमोचनः सुरगणो विद्येशो बिन्दुसंश्रयः । वातरूपोऽमलोन्मायी विकर्ता गहनो गुहः ॥ ४९॥ करणं कारणं कर्ता सर्वबन्धविमोचनः । व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ॥ ५०॥ गुरुदो ललितोऽभेदो भावात्मात्मनि संस्थितः । वीरेश्वरो वीरभद्रो वीरासनविधिर्गुरुः ॥ ५१॥ वीरचूडामणिर्वेत्ता चिदानन्दो नदीधरः । आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ॥ ५२॥ वालखिल्यो महावीरस्तिग्मांशुर्बधिरः खगः । पाठभेद बालखिल्यो अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ॥ ५३॥ मघवान् कौशिको गोमान् विरामः सर्वसाधनः । मघवाकौशिको ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥ ५४॥ अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसः । पाठभेद दण्डो परमार्थः परो मायी शम्बरो व्याघ्रलोचनः ॥ ५५॥ पाठभेद परोमायः संवरो रुचिर्बहुरुचिर्वैद्यो वाचस्पतिरहस्पतिः । रविर्विरोचनः स्कन्दः शास्ता वैवस्वतो यमः ॥ ५६॥ युक्तिरुन्नतकीर्तिश्च सानुरागः पुरञ्जयः । कैलासाधिपतिः कान्तः सविता रविलोचनः ॥ ५७॥ विश्वोत्तमो वीतभयो विश्वभर्ताऽनिवारतः । नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ॥ ५८॥ दूरश्रवो विश्वसहो ध्येयो दुस्स्वप्ननाशनः । उत्तारणो दुष्कृतिहा विज्ञेयो दुस्सहोऽभवः ॥ ५९॥ अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः । विश्वगोप्ता विश्वकर्ता सुवीरो रुचिराङ्गदः ॥ ६०॥ जननो जनजन्मादिः प्रीतिमान्नीतिमान् ध्रुवः । वशिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः ॥ ६१॥ प्रणवः सत्पथाचारो महाकोशो महाधनः । जन्माधिपो महादेवः सकलागमपारगः ॥ ६२॥ तत्त्वं तत्त्वविदेकात्मा विभुर्विष्णुविभूषणः । पाठभेद विष्णुर्विभू ऋषिर्ब्राह्मण ऐश्वर्यं जन्ममृत्युजरातिगः ॥ ६३॥ पञ्चयज्ञसमुत्पत्तिर्विश्वेशो विमलोदयः । पाठभेद पञ्चतत्त्व आत्मयोनिरनाद्यन्तो वत्सलो भक्तलोकधृक् ॥ ६४॥ पाठभेद अनाद्यन्तो ह्यात्मयोनिर् गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः । शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ॥ ६५॥ अनेमिरिष्टनेमिश्च मुकुन्दो विगतज्वरः । स्वयञ्ज्योतिर्महाज्योतिस्तनुज्योतिरचञ्चलः ॥ ६६॥ पिङ्गळः कपिलश्मश्रुर्भालनेत्रस्त्रयीतनुः । ज्ञानस्कन्दो महानीतिर्विश्वोत्पत्तिरुपप्लवः ॥ ६७॥ पाठभेद स्कन्धो भगो विवस्वानादित्यो गतपारो बृहस्पतिः । कल्याणगुणनामा च पापहा पुण्यदर्शनः ॥ ६८॥ उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः । पाठभेद सदसन्त्रपः नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ॥ ६९॥ पवित्रः पापहारी च मणिपूरो नभोगतिः । पाठभेद पापनाशश्च हृत्पुण्डरीकमासीनः शक्रः शान्तो वृषाकपिः ॥ ७०॥ उष्णो ग्रहपतिः कृष्णः समर्थोनर्थनाशनः । अधर्मशत्रुरज्ञेयः पुरुहूतः पुरश्रुतः ॥ ७१॥ ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः । जगद्धितैषी सुगतः कुमारः कुशलागमः ॥ ७२॥ हिरण्यवर्णो ज्योतिष्मान्नानाभूतरतो ध्वनिः । आरोग्यो नयनाध्यक्षो विश्वामित्रो धनेश्वरः ॥ ७३॥ नमना? ब्रह्मज्योतिर्वसुधामा महाज्योतिरनुत्तमः । पाठभेद वसुर्धामा मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ ७४॥ पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः । निरावरणनिर्वारो वैरञ्च्यो विष्टरश्रवाः ॥ ७५॥ आत्मभूरनिरुद्धोत्रिर्ज्ञानमूर्तिर्महायशाः । लोकवीराग्रणीर्वीरश्चण्डः सत्यपराक्रमः ॥ ७६॥ व्यालकल्पो महाकल्पः कल्पवृक्षः कलाधरः । अलङ्करिष्णुरचलो रोचिष्णुर्विक्रमोन्नतः ॥ ७७॥ आयुः शब्दपतिर्वाग्मी प्लवनः शिखिसारथिः । असंसृष्टोऽतिथिः शत्रुप्रमाथी पादपासनः ॥ ७८॥ वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः । जप्यो जरादिशमनो लोहितश्च तनूनपात् ॥ ७९॥ वृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा । पाठभेद बृहदश्वो निदाघस्तपनो मेघभक्षः परपुरञ्जयः ॥ ८०॥ सुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः । वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ ८१॥ अङ्गिरा गुरुरात्रेयो विमलो विश्वपावनः । पावनः पुरजिच्छक्रस्त्रैविद्यो वरवाहनः ॥ ८२॥ पाठभेद नववारणः मनो बुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः । जमदग्निर्बलनिधिर्विगालो विश्वगालवः ॥ ८३॥ पाठभेद बलनिधिः यः? अघोरोऽनुत्तरो यज्ञः श्रेयो निःश्रेयसप्रदः । शैलो गगनकुन्दाभो दानवारिररिन्दमः ॥ ८४॥ चामुण्डो जनकश्चारुर्निश्शल्यो लोकशल्यधृक् । चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ ८५॥ आम्नायोऽथ समाम्नायस्तीर्थदेवः शिवालयः । बहुरूपो महारूपः सर्वरूपश्चराचरः ॥ ८६॥ न्यायनिर्णायको नेयो न्यायगम्यो निरञ्जनः । पाठभेद न्यायी सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ॥ ८७॥ पाठभेद शास्त्र मुण्डी विरूपो विकृतो दण्डी नादी गुणोत्तमः । पाठभेद मुण्डो दानी पिङ्गलाक्षो हि बह्वक्षो नीलग्रीवो निरामयः ॥ ८८॥ पाठभेद जनाध्यक्षो सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकधृक् । पद्मासनः परञ्ज्योतिः पारम्पर्यफलप्रदः ॥ ८९॥ पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः । परावरज्ञो वरदो वरेण्यश्च महास्वनः ॥ ९०॥ देवासुरगुरुर्देवो देवासुरनमस्कृतः । देवासुरमहामित्रो देवासुरमहेस्वरः ॥ ९१॥ देवासुरेश्वरो दिव्यो देवासुरमहाश्रयः । देवदेवोऽनयोऽचिन्त्यो देवतात्मात्मसम्भवः ॥ ९२॥ सद्यो महासुरव्याधो देवसिंहो दिवाकरः । विबुधाग्रचरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ ९३॥ शिवज्ञानरतः श्रीमान् शिखी श्रीपर्वतप्रियः । वज्रहस्तः सिद्धखड्गो नरसिंहनिपातनः ॥ ९४॥ ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः । नन्दी नन्दीश्वरोऽनन्तो नग्नव्रतधरः शुचिः ॥ ९५॥ लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगापहः । स्वधामा स्वगतः स्वर्गी स्वरः स्वरमयः स्वनः ॥ ९६॥ बाणाध्यक्षो बीजकर्ता कर्मकृद्धर्मसम्भवः । पाठभेद धर्मकृत् दम्भो लोभोऽथ वै शम्भुः सर्वभूतमहेश्वरः ॥ ९७॥ पाठभेद लोभोऽर्थविच्छम्भुः श्मशाननिलयस्त्र्यक्षः सेतुरप्रतिमाकृतिः । लोकोत्तरस्फुटो लोकस्त्र्यम्बको नागभूषणः ॥ ९८॥ अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः । पाठभेद मयद्वेषी हीनदोषोऽक्षयगुणो दक्षारिः पूषदन्तभित् ॥ ९९॥ धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः । अकालः सकलाधारः पाण्डुराभो मृडो नटः ॥ १००॥ पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः । सन्मार्गपः प्रियोऽधूर्तः पुण्यकीर्तिरनामयः ॥ १०१॥ मनोजवस्तीर्थकरो जटिलो नियमेश्वरः । जीवितान्तकरो नित्यो वसुरेता वसुप्रदः ॥ १०२॥ सद्गतिः सिद्धिदः सिद्धिः सज्जातिः खलकण्टकः । कलाधरो महाकालभूतः सत्यपरायणः ॥ १०३॥ लोकलावण्यकर्ता च लोकोत्तरसुखालयः । चन्द्रसञ्जीवनः शास्ता लोकग्राहो महाधिपः ॥ १०४॥ लोकबन्धुर्लोकनाथः कृतज्ञः कृत्तिभूषितः । अनपायोऽक्षरः कान्तः सर्वशस्त्रभृतां वरः ॥ १०५॥ पाठभेद शास्त्र तेजोमयो द्युतिधरो लोकमानी घृणार्णवः । शुचिस्मितः प्रसन्नात्मा ह्यजेयो दुरतिक्रमः ॥ १०६॥ ज्योतिर्मयो जगन्नाथो निराकारो जलेश्वरः । तुम्बवीणो महाकायो विशोकः शोकनाशनः ॥ १०७॥ त्रिलोकपस्त्रिलोकेशः सर्वशुद्धिरधोक्षजः । अव्यक्तलक्षणो देवो व्यक्तोऽव्यक्तो विशांपतिः ॥ १०८॥ परः शिवो वसुर्नासासारो मानधरो यमः । ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः ॥ १०९॥ वेधा विधाता धाता च स्रष्टा हर्ता चतुर्मुखः । कैलासशिखरावासी सर्वावासी सदागतिः ॥ ११०॥ हिरण्यगर्भो द्रुहिणो भूतपालोथ भूपतिः । सद्योगी योगविद्योगी वरदो ब्राह्मणप्रियः ॥ १११॥ देवप्रियो देवनाथो देवको देवचिन्तकः । विषमाक्षो विरूपाक्षो वृषदो वृषवर्धनः ॥ ११२॥ निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः । दर्पहा दर्पदो दृप्तः सर्वार्थपरिवर्तकः ॥ ११३॥ सहस्रार्चिर्भूतिभूषः स्निग्धाकृतिरदक्षिणः । भूतभव्यभवन्नाथो विभवो भूतिनाशनः ॥ ११४॥ अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः । निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः ॥ ११५॥ सत्त्ववान् सात्त्विकः सत्यः कृतस्नेहः कृतागमः । अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् ॥ ११६॥ सुप्रीतः सुखदः सूक्ष्मः सुकरो दक्षिणानिलः । नन्दिस्कन्दो धरो धुर्यः प्रकटप्रीतिवर्धनः ॥ ११७॥ अपराजितः सर्वसहो गोविन्दः सत्ववाहनः । अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः ॥ ११८॥ वाराहशृङ्गधृक् शृङ्गी बलवानेकनायकः । शृतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक् ॥ ११९॥ श्रीवत्सलः शिवारम्भः शान्तभद्रः समो यशः । भूयशो भूषणो भूतिर्भूतिकृद् भूतभावनः ॥ १२०॥ अकम्पो भक्तिकायस्तु कालहानिः कलाविभुः । सत्यव्रती महात्यागी नित्यः शान्तिपरायणः ॥ १२१॥ परार्थवृत्तिर्वरदो विरक्तस्तु विशारदः । शुभदः शुभकर्ता च शुभनामा शुभः स्वयम् ॥ १२२॥ अनर्थितो गुणग्राही ह्यकर्ता कनकप्रभः । स्वभावभद्रो मध्यस्थः शत्रुघ्नो विघ्ननाशनः ॥ १२३॥ शिखण्डी कवची शूली जटी मुण्डी च कुण्डली । अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ॥ १२४॥ असङ्ख्येयोऽप्रमेयात्मा वीर्यवान् वीर्यकोविदः । वेद्यश्च वै वियोगात्मा परावरमुनीश्वरः ॥ १२५॥ पाठभेद सप्तावर अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः । सुरेशः शरणः सर्वः शब्दः प्रतपतां वरः ॥ १२६॥ कालपक्षः कालकालः सुकृती कृतवासुकिः । महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः ॥ १२७॥ द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः । विश्वतः सम्प्रवृत्तस्तु व्यूढोरस्को महाभुजः ॥ १२८॥ सर्वयोनिर्निराटङ्को नरनारायणप्रियः । पाठभेद निरातङ्को निर्लेपो यतिसङ्गात्मा निर्व्यङ्गो व्यङ्गनाशनः ॥ १२९॥ स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिर्निराकुलः । पाठभेद स्तुति निरवद्यमयोपायो विद्याराशिश्च सत्कृतः ॥ १३१॥ प्रशान्तबुद्धिरक्षुण्णः सङ्ग्रहो नित्यसुन्दरः । वैयाघ्रधुर्यो धात्रीशः सङ्कल्पः शर्वरीपतिः ॥ १३२॥ परमार्थगुरुर्दत्तः सूरिराश्रितवत्सलः । सोमो रसज्ञो रसदः सर्वसत्वावलम्बनः ॥ १३२ एवं नाम्नां सहस्रेण तुष्टाव हि हरं हरिः । प्रार्थयामास शम्भुं वै पूजयामास पङ्कजैः ॥ १३३॥ ततः स कौतुकी शम्भुश्चकार चरितं द्विजाः । महद्भूतं सुखकरं तदेव शृणुतादरात् ॥ १३४॥ इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवसहस्रनामवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५॥
आपल्या सनातन वैदिक धर्मामध्ये हजारो वर्षांपासून देव-देवता, ऋषी- मुनी यांनी लोक कल्याणार्थ बरीच स्तोत्र, मंत्र, श्लोक, वेद-पुराणे, आरत्या, विविध व्रत वैकल्ये, पूजा- विधी इत्यादी लिहून ठेवले आहेत. असे नित्योपयोगी लेखन आम्ही आपल्यासाठी घेऊन आलो आहोत. त्याचा आपल्या आराध्य देवते प्रमाणे नित्यपाठ केल्यास आपल्यास इच्छित फलप्राप्ती होते.
Blog Views
श्री स्वामी समर्थ आरती
जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!! छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...
Popular Blogs
-
।। तुळशीच्या लग्नाची मंगलाष्टके ।। स्वस्ति श्री गणनायकं गजमुखं , मोरेश्वरं सिद्धिदं । बल्लाळो मुरुडं विनायकमहं , चिन्तामणि स्थेव...
-
खंडोबाचे नवरात्र नमोमल्लारि देवाय भक्तानां प्रेमदायिने I म्हाळसापतिं नमस्तुभ्यं मैरालाय नमोनमः II मल्लारिं जगतान्नाथं त्रिपुरा...
-
आरती नित्यानंदची श्री सचिदानंद सदगुरू साईनाथ महाराज की जय जय जय आरती नित्यानंद राया। सगुणारूपी गोबिंदा।। प्रथमा दत्तघेसी। द्...