॥ गोपाल सहस्रनाम स्तोत्र ॥
पार्वत्युवाच
कैलास शिखरे रम्ये गौरी पृच्छति शंकरम्।
ब्रह्माण्डा खिलनाथस्त्वं सृष्टि संहारकारकः॥१॥
त्वमेव पूज्यसेलौकै र्ब्रह्मविष्णु सुरादिभिः।
नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वरः॥२॥
आश्चर्य मिदमत्यन्तं जायते मम शंकर।
तत्प्राणेश महाप्राज्ञ संशयं छिन्धि शंकर॥३॥
श्री महादेव उवाच-
धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे।
हस्यातिरहस्यं च यत्पृच्छसि वरानने॥४॥
स्त्रीस्वभावा न्महादेवि पुनस्त्वं परि पृच्छसि।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः॥५॥
दत्ते च सिद्धिहानिः स्यात्तस्मा द्यत्नेन गोपयेत्।
इदं रहस्यं परमं पुरुषार्थ प्रदायकम्॥६॥
धनरत्नौ घमाणिक्यं तुरंगं गजादिकम्।
ददाति स्मरणादेव महामोक्ष प्रदायकम्॥७॥
तत्तेऽहं संप्रवक्ष्यामि श्रृणुष्वावहिता प्रिये।
योऽसौ निरंजनो देवश्चि त्स्वरूपी जनार्दनः॥८॥
संसारसागरो त्तारकारणाय सदा नृणाम्।
श्रीरंगादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति॥९॥
ततो लोका महामूढा विष्णु भक्ति विवर्जिताः।
निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः॥१०॥
निरंजनो निराकारो भक्तानां प्रीतिकामदः।
वृदावनविहाराय गोपालं रूपमुद्वहन्॥११॥
मुरलीवाद नाधारी राधायै प्रीतिमावहन्।
अंशांशेभ्यः समुन्मील्य पूर्णरूप कलायुतः॥१२॥
श्रीकृष्ण चन्द्रो भगवान्नन्द गोपवरोद्यतः।
धरिणीरूपिणी माता यशोदा नन्ददायिनी॥१३॥
द्वाभ्यां प्रायाचितो नाथो देवक्यां वसुदेवतः।
ब्रह्मणा ऽभ्यर्थितो देवो देवैरपि सुरेश्वरि॥१४॥
जातोऽवन्यां मुकुन्दोऽपि मुरली वेदरेचिका।
तयासार्द्ध वचःकृत्वा ततो जातो महीतले॥१५॥
संसार सारसर्वस्वं श्यामलं महदुज्ज्वलम्।
एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम्॥१६॥
गौरतेजो बिना यस्तु श्यामतैजः समर्चयेत्।
जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे॥१७॥
स ब्रह्महासुरापी च स्वर्णस्तेयी च पंचमः।
एतैर्दो षैर्विलिप्ये तेजोभेदा न्महेश्वरि।१८॥
तस्माज्ज्योतिर भूद्द्वेधा राधामाधव रूपकम्।
तस्मादिदं महादेवि गोपालेनैव भाषितम्॥१९॥
दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले।
ततः पृष्टवती राधा सन्देहं भेदमात्मनः॥२०॥
निरंजना त्समुत्पन्नं मयाऽधीतं जगन्मयि।
श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च॥२१॥
ततो नारदतः सर्व विरला वैष्णवास्तथा।
कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः॥२२॥
शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि।
ब्रह्म हत्यामवाप्नोति तस्माद्यत्नेन गोपयेत्॥२३॥