🌹 *बाह्य शांती सूक्त* 🌹
नमो वः पितरो, यच्छिवं तस्मै नमो, पितरो यत् स्योनं तस्मै ।
नमो यः पितरः, स्वधा वः पितरः ॥ १ ॥
नमोऽस्तु ते निर्ऋते, तिग्म-तेजोऽमस्ययान विचृता बन्ध-पाशान् ।
यमो मह्यं पुनरित् त्वां ददाति । तस्मै यमाय नमोऽस्तु मृत्यवे ॥ २ ॥
नमोऽस्वसिताय नमस्तिरश्चिराजये ।
स्वजाय बभ्रवे नमो नमो देव-जनेभ्यः ॥ ३ ॥
नमः शिताय, तक्मने, नमो रुराय शोचिषे कृणोमि ।
यो अन्येद्युरुभयद्युरभ्येति, तृतिय-काय नमोअस्तु तक्मने ॥ ४ ॥
नमस्ते अधिवाकाय, परावाकाय ते नमः ।
सु-मत्यै मृत्यो ते नमो, दुर्मत्यै त इदं नमः ॥ ५ ॥
नमस्ते यातुधानेभ्यो, नमस्ते भेषजेभ्यः ।
नमस्ते मृत्यो मूलेभ्यो, ब्राह्मणेभ्य इदं नमः ॥ ६ ॥
नमो देव-वधेभ्यो, नमो राजवधेभ्यः ।
अथो ये विश्यानां, वधास्तेभ्यो मृत्यो नमोऽस्तु ते ॥ ७ ॥
नमस्तेअस्तु नारदा नुष्ठ विदुषे वशा ।
कतमासां भीम-तमा यामदत्वा पराभवेत् ॥ ८ ॥
नमस्तेअस्तु विद्युते, नमस्ते स्तनयित्नवे ।
नमस्तेअस्त्वश्मने, येना दूडाशे अस्यसि ॥ ९ ॥
नमस्तेअस्त्वायते नमोअस्तु पराय ते ।
नमस्ते प्राण तिष्ठत, आसीनायोत ते नमः ॥ १० ॥
नमस्तेऽस्त्वायते नमोअस्तु पराय ते ।
नमस्ते रुद्र तिष्ठत, आसीनायोत ते नमः ॥ ११ ॥
नमस्ते जायमानायै, जाताया उत ते नमः ।
वालेभ्यः शफेभ्यो, रुपायाध्न्येध्न्ये नमः ॥ १२ ॥
नमस्ते प्राण-क्रन्दाय, नमस्ते स्तनयित्नवे ।
नमस्ते प्राण-विद्युते, नमस्ते प्राण-वर्षते ॥ १३ ॥
नमस्ते प्राण प्राणते, नमोअस्त्वपानते ।
पराचीनाय ते नमः, प्रतीचीनाय ते नमः, सर्वस्मै त इदं नमः ॥ १४ ॥
नमस्ते राजन् वरुणास्तु मन्यवे, विश्व ह्युग्र निचिकेषि द्रुग्धम् ।
सहस्त्रमन्यान् प्र सुवामि, साकं शतं जीवति शरदस्तवायम् ॥ १५ ॥
नमस्ते रुद्रास्यते, नमः प्रतिहितायै ।
नमो विसृज्य-मानायै, नमो निपतितायै ॥ १६ ॥
नमस्ते लाङ्गलेभ्यो, नम ईषायुगेभ्यह ।
वीरुत् क्षेत्रिय-नाशन्यप क्षेत्रियमुच्छतु ॥ १७ ॥
नमो गन्धर्वस्य, नमसे नमो भामाय चक्षुषे च कृण्मः ।
विश्वावसो ब्रह्मणा ते नमोऽभि जाया अप्सरसः परेहि ॥ १८ ॥
नमो यमाय, नमोअस्तु मृत्यवे, नमः पितृभ्य उतये नयन्ति ।
उत्पारणस्य यो वेद, तमग्निं पुरो दधेऽस्मा अरिष्टतातये ॥ १९ ॥
नमो रुद्राय, नमोऽस्तु तक्मने, नमो राज्ञे वरुणायं त्विषीमते ।
नमो दिवे, नमः पृथिव्यै, नमः औषधीभ्यः ॥ २० ॥
नमो रुराय च्यवनाय, नोदनाय, धृष्णवे ।
नमः शीताय, पुर्व काम कृत्वने ॥ २१ ॥
नमो वः पितर ऊर्जे, नमो वः पितरो रसाय ॥ २२ ॥
नमो वः पितरो भामाय, नमो वः पितरो मन्यवे ॥ २३ ॥
नमो वः पितरो यद्-घोरं, तस्मै नमो वः पितरो,
यत क्रूरं तस्मै ॥ २४ ॥
हे सूक्त रोज सकाळी आंघोळ झाल्यानंतर देवपूजा करण्याआधी म्हणतात. दक्षिणेकडे तोंड करुन बसून म्हणावे. तूप व तीळाचे हवन गोवरीच्या तुकड्यावर करतात. कामांत यश. सहकार्य, पितरांचे आशिर्वाद व कुलदेवताही प्रसन्न होतात.
*संकलन :- अशोककाका कुलकर्णी*