॥ आदित्यहृदयम् ॥
ततो युद्धपरिश्रान्तं
समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥
दैवतैश्च समागम्य
द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥ २ ॥
राम राम महाबाहो शृणु
गुह्यं सनातनम् । येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥ ३ ॥
आदित्यहृदयं पुण्यं
सर्वशत्रुविनाशनम् । जयावहं जपेन्नित्यमक्षय्यं परमं शुभम् ॥ ४ ॥
सर्वमङ्गळमाङ्गल्यं
सर्वपापप्रणाशनम् । चिन्ताशोक प्रशमनमायुर्वर्धनमुत्तमम् ॥ ५ ॥
रश्मिमन्तं
समुद्यन्तं देवासुर नमस्कृतम् । पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६ ॥
सर्वदेवात्मको ह्येष
तेजस्वी रश्मिभावनः । येष देवासुरगणान् लोकान् पाति गभस्तिभिः ॥ ७ ॥
येष ब्रह्मा च
विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमोह्यापाम्पतिः ॥ ८
॥
पितरो वसवःसाध्या
ह्यश्विनौ मरुतो मनुः । वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ॥ ९ ॥
आदित्यः सविता सूर्यः
खगः पूषा गभस्तिमान् । सुवर्णसदृशो भानुः स्वर्णरेता दिवाकरः ॥ १० ॥
हरिदश्वः सहस्रार्चिः
सप्तसप्तिर्मरीचिमान् । तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् ॥ ११ ॥
हिरण्यगर्भः
शिशिरस्तपनो भास्करो रविः । अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ १२ ॥
व्योमनाथस्तमोभेदी
ऋग्यजुस्सामपारगः । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥ १३ ॥
आतपी मण्डली मृत्युः
पिङ्गलः सर्वतापनः । कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४ ॥
नक्षत्र
ग्रहताराणामधिपो विश्वभावनः । तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तुते ॥ १५ ॥
नमः पूर्वाय गिरये
पश्चिमायाद्रये नमः । ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६ ॥
जयाय जयभद्राय
हर्यश्वाय नमो नमः । नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥
नम उग्राय वीराय
सारङ्गाय नमो नमः । नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ १८ ॥
ब्रह्मेशानाच्युतेशाय
सूर्यायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ ॥
तमोघ्नाय हिमघ्नाय
शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥
तप्तचामीकराभाय
वह्नये विश्वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥
नाशयत्येष वै भूतं
तदेव सृजति प्रभुः । पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥
एष सुप्तेषु जागर्ति
भूतेषु परिनिष्ठितः । एष एवाग्निहोत्रञ्च फलञ्चैवाग्निहोत्रिणाम् ॥ २३ ॥
वेदाश्च क्रतवश्चैव
क्रतूनां फलमेव च । यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४ ॥
॥ फलश्रुतिः ॥
एनमापत्सु कृच्छ्रेषु
कान्तारेषुभयेषुच । कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ २५ ॥
पूजयस्वैनमेकाग्रो
देवदेवं जगत्पतिम् । एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥
अस्मिन् क्षणे
महाबाहो रावणं त्वं वधिष्यसि । एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥ २७ ॥
एतच्छ्रुत्वा महातेजा
नष्टशोकोऽभवत्तदा । धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८ ॥
आदित्यं प्रेक्ष्य
जप्त्वा तु परं हर्षमवाप्तवान् । त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९
॥
रावणं प्रेक्ष्य
हृष्टात्मा युद्धाय समुपागमत् । सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३० ॥
अथ रविरवदन्निरीक्ष्य
रामं मुदितमनाः परमं प्रहृष्यमाणः । निशिचरपतिसङ्क्षयं विदित्वा सुरगणमध्यगतो
वचस्त्वरेति ॥ ३१ ॥