|| द्वादश ज्योतिर्लिंग स्तोत्र ||
सौराष्ट्रे
सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां
महाकालमोङ्कारममलेश्वरम्॥1॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्।
सेतुबन्धे
तु रामेशं नागेशं दारुकावने॥2॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे।
हिमालये
तु केदारं घृष्णेशं च शिवालये॥3॥
एतानि ज्योतिर्लिङ्गानि सायं प्रात:
पठेन्नर:।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥4॥