|| मुद्गलपुराणे श्री गणेश स्तोत्र ||
श्री
गणेशाय नमः ।
स्कन्द
उवाच :
नमस्ते
योगरूपाय सम्प्रज्ञातशरीरिणे ।
असंप्रज्ञात मूर्ध्ने ते तयोर्योगमयाय च ॥1॥
वामाङ्ग भ्रान्तिरूपात् सिद्धिसर्वप्रदप्रभो ।
भ्रान्तिधारकरूपाव
बुद्धिस्ते दक्षिणाङ्ग ते ॥2॥
मायासिद्धिस्तथादेवं मायिकोबुद्धिसंज्ञितः ।
तयोर्योगे
गणेश ! त्वम् स्थितोऽसि नमोस्तुते ॥3॥
जगद्-रूपोगतारष्ट नकारो ब्रह्मवाचकः
तयोर्योगे
हि गणपो नाम तुभ्यम् नमोनमः ॥4॥
चतुर्विधम् जगत्-सर्वम् ब्रह्मतत्त्वप्रदात्मकं ।
हस्ताश्चत्वार
एवम् ते चतुर्भुज नमोऽस्तुते ॥5॥
स्वसंवेद्यम् च यद्-ब्रहम तत्-तत् खेलकरो भवान् ।
तेन
स्वानन्दवासी त्वम् स्वानन्दपतये नमः ॥6॥
त्वम् त्वम् चरसि भक्तानाम् तेषाम् वृद्धि समस्थितः ।
चौरवत्
तेन ते भूत वै मूषको वाहनम् प्रभो ॥7॥
जगति ब्रह्मणि स्थित्वा भोगान् भुन्क्षि स्व-योगतः ।
जगद्भिर्ब्रह्मभिस्तेन
तिष्ठितम् ज्ञाय तेन च ॥8॥
चौरवद्-भोगकर्त्ता त्वम् तेन ते वाहनम् परम् ।
मूषको
मूषकारूढो हेरम्बाय नमो नमः ॥9॥
किम् स्तौमि त्वाम् गदाधीशः योगशान्तिधरम् परो ।
वेदादयोयुक्षान्तिम्
अतो देवम् नमाम्यहम् ॥10॥
इति स्तोत्रम् समाकर्ण्य गणेशस्तमुवाचतः ।
वरं
ब्रूणु महाभाग दास्यामि दुर्लभम् न ते ॥11॥
त्वयाकृतमिदम् स्तोत्रम् योगशान्तिप्रदम् भवेत् ।
मया
भक्तिकरं स्कन्द सर्वसिद्धिप्रदम् तथा ॥12॥
यं यं इच्छसि तं तं वै दास्यमि स्तोत्रयन्त्रितः ।
पठते
श्रुण्वते नित्यम् कार्त्तिकेय विशेषतः ॥13॥
इति श्रीमुद्गलपुराणान्तर्वर्ती गणेशस्तोत्रं समाप्तम् ॥