Blog Views

हनुमत्पञ्चरत्नम्

हनुमत्पञ्चरत्नम्

वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् ।

सीतापतिदूताद्यं वातात्मजमद्य भावये ह्रद्यम् ॥१॥

तरुनारुनमुखकमलं करुणारस-पूर-पूरितापाङ्‌गम् ।

संजीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥२॥

शम्बर-वैरि-शरातिगमम्बुज-दल-विपुल-लोचनोदारम् ।

कम्बुगलमनिल-दिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे ॥३॥

दुरीकृत-सीतार्तिः प्रकटीकृतरामवैबवस्फूर्तिः ।

दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥

वानर-निकराध्यक्षं दानव-कुल-कुमुद-रवि-कर-सदृक्षम् ।

दीन-जनावन-दीक्षं पवन-तपःपाक-पुञ्जमद्राक्षम् ॥५॥

एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।

चिरमिह निकिलान् भोगान भुक्त्वा श्रीरामभक्तिभाग्भवति ॥६॥

समर्थ रामदास रचित || श्री नरसिंह पंचक ||

|| श्री नरसिंह पंचक || नरहरी नरपाळें भक्तपाळें भुपाळें। प्रगट रूप विशाळें दाविलें लोकपाळें। खवळत रिपुकाळें काळकाळें कळाळें। तट तट तट स्तंभि ...

Popular Blogs