Blog Views

श्री विष्णु शत नाम स्तोत्र

 

श्री विष्णु शत नाम स्तोत्र


वासुदेवं ह्रषीकेशं वामनं जलशायिनम् l जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम ll
वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् l अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् ll


नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम l गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम ll
वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम् l चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमम् ll


वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् l त्रिविक्रमं त्रिकालज्ञं त्रमूर्तिं नन्दिकेश्वरम् ll
रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम् l श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधम् ll


दामोदरं दमोपेतं केशवं केशिसूदनम् l वरेण्यं वरदं विष्णुमानन्दं वसुदेवजम ll
हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् l सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ll


हिरण्यतनुसंकाशं सूर्यायुतसमप्रभम् l मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ll
ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितम् l सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ll


ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम् l योगीशं योगनिष्णातं योगिनं योगरूपिणम् ll
ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम l इति नामशतं दिव्यं वैष्णवं खलु पापहम् ll


व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम l यः पठेत प्रातरुत्थाय स भवेद्वैष्णवो नरः ll
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् l चान्द्रायणसहस्राणि कन्यादानशतानि च ll


गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः l अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ll

 

 


श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs