।।श्रीदत्तात्रेयस्तोत्रम्।।
दत्तात्रेयं
महात्मानं वरदं भक्तवत्सलम्।।
प्रपन्नार्तिहरं
वन्दे स्मर्तृगामी स माsवतु।।१।।
दीनबन्धुं
कृपासिन्धुं सर्वकारणकारणम्।
सर्वरक्षाकरं वन्दे स्मर्तृगामी स माsवतु।।२।।
शरणागतदीनार्तपरित्राणपरायणम्।
नारायणं
विभुं वन्दे स्मर्तृगामी स माsवतु।।३।।
सर्वानर्थहरं
देवं सर्वमंगलमंगलम्।
सर्वक्लेशहरं
वन्दे स्मर्तृगामी स माsवतु।।४।।
शोषणं
पापपंकस्य दीपनं ज्ञानतेजसः।
भक्ताभीष्टप्रदं
वन्दे स्मर्तृगामी स माsवतु।।५।।
सर्वरोगप्रशमनं
सर्वपीडानिवारणम्।
तापप्रशमनं
वन्दे स्मर्तृगामी स माsवतु।।६।।
ब्रह्मण्यं
धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम्।
आपदुद्धरणं
वन्दे स्मर्तृगामी स मावतु।।७।।
जन्मसंसारबंधघ्नं
स्वरूपानन्ददायकम्।
निःश्रेयसप्रदं
वन्दे स्मर्तृगामी सा माsवतु।।८।।
जयलाभयशःकामदातुर्दत्तस्य
यः स्तवम्।
भोगमोक्षप्रदस्येमं
प्रपठेत्स कृती भवेत्।।९।।
इति
श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयस्तोत्रं संपूर्णम्।।