हरिः
ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां
हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥
तां
म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां
हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥
अश्वपूर्वां
रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं
देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥
कां
सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे
स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥
प्रभासां
यशसा लोके देवजुष्टामुदाराम् ।
पद्मिनीमीं
शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥
आदित्यवर्णे
तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य
फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥
उपैतु
मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि
राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥
क्षुत्पिपासामलां
ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं
च सर्वां निर्णुद गृहात् ॥८॥
गन्धद्वारां
दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरींग्
सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥
मनसः
काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां
रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥
कर्दमेन
प्रजाभूता सम्भव कर्दम ।
श्रियं
वासय मे कुले मातरं पद्ममालिनीम् ॥११॥
आपः
सृजन्तु स्निग्धानि चिक्लीत वस गृहे ।
नि
च देवी मातरं श्रियं वासय कुले ॥१२॥
आर्द्रां
पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां
हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥
आर्द्रां
यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां
हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥
तां
म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां
हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम् ॥१५॥
यः
शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं
पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥१६॥
पद्मानने
पद्म ऊरु पद्माक्षी पद्मासम्भवे ।
त्वं
मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥१७॥
अश्वदायि
गोदायि धनदायि महाधने ।
धनं
मे जुषताम् देवी सर्वकामांश्च देहि मे ॥१८॥
पुत्रपौत्र
धनं धान्यं हस्त्यश्वादिगवे रथम् ।
प्रजानां
भवसि माता आयुष्मन्तं करोतु माम् ॥१९॥
धनमग्निर्धनं
वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो
बृहस्पतिर्वरुणं धनमश्नुते ॥२०॥
वैनतेय
सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं
धनस्य सोमिनो मह्यं ददातु ॥२१॥
न
क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः ।
भवन्ति
कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥२२॥
वर्षन्तु
ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु
सर्वबीजान्यव ब्रह्म द्विषो जहि ॥२३॥
पद्मप्रिये
पद्म पद्महस्ते पद्मालये पद्मदलायताक्षि ।
विश्वप्रिये
विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥२४॥
या
सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा
वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥२५॥
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता
हेमकुम्भैः ।
नित्यं
सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥२६॥
लक्ष्मीं
क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम् ।
दासीभूतसमस्त
देव वनितां लोकैक दीपांकुराम् ॥२७॥
श्रीमन्मन्दकटाक्षलब्ध
विभव ब्रह्मेन्द्रगङ्गाधराम् ।
त्वां
त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥२८॥
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती
।
श्रीलक्ष्मीर्वरलक्ष्मीश्च
प्रसन्ना मम सर्वदा ॥२९॥
वरांकुशौ
पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्क
कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीस्वरीं त्वाम् ॥३०॥
सर्वमङ्गलमाङ्गल्ये
शिवे सर्वार्थ साधिके ।
शरण्ये
त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥३१॥
सरसिजनिलये
सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति
हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥३२॥
विष्णुपत्नीं
क्षमां देवीं माधवीं माधवप्रियाम् ।
विष्णोः
प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥३३॥
महालक्ष्मी
च विद्महे विष्णुपत्नीं च धीमहि ।
तन्नो
लक्ष्मीः प्रचोदयात् ॥३४॥
श्रीवर्चस्यमायुष्यमारोग्यमाविधात्
पवमानं महियते ।
धनं
धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥३५॥
ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः
।
भयशोकमनस्तापा
नश्यन्तु मम सर्वदा ॥३६॥
य
एवं वेद ॐ महादेव्यै च विष्णुपत्नीं च धीमहि ।
तन्नो
लक्ष्मीः प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः ॥३७॥