कृष्ण- चैतन्य- चन्द्रस्य- सहस्र- नाम- स्तोत्रम् :-
sri krishna chaitanya sahasranama stotram :-
नमस्तस्मै भगवते चैतन्याय महात्मने |
कलिकल्मषनाशाय भवाब्धितारणाय च || १||
ब्रह्मणा हरिदासेन श्रीरूपाय प्रकाशितम् |
तत्सर्वं कथयिष्यामि सावधानं निशामय || २||
श्रुत्वैवं वैष्णवाः सर्वे प्रहृष्टाः प्रेमविह्वलाः |
सादरं परिपप्रच्छुः प्रेमगद्गदया गिरा || ३||
वैष्णवानां हि कृपया स्मृत्वा वाक्यं पितुस्तदा |
सणोन्त्य भगवद्रूपं नामानि कथयामि वै || ४||
ध्यानम् :-
ॐ अस्य श्रीकृष्णचैतन्यसहस्रनामस्तोत्रस्य
नारायणः ऋषिः अनुष्टुप् छन्दः श्रीमद्भगवद्भक्तिर्देवता
श्रीराधाकृष्णप्रीतये श्रीकृष्णचैतन्य नामसहस्रपथे विनियोगः .
ॐ नमः प्रेमसमुच्चयाय गोपीजनवल्लभाय महात्मने .
ॐ विश्वम्भरः सदानन्दो विश्वजिद्विश्वभावनः |
महानुभावो विश्वात्मा गौराङ्गो गौरभावनः || ५||
हेमप्रभो दीर्घबाहुर्दीर्घग्रीवः शुचिर्वसुः |
चैतन्यश्चेतनश्चेतश्चित्तरूपी प्रभुः स्वयम् || ६||
राधाङ्गी राधिकाभावो राधान्वेशी प्रियंवदः |
नीतिज्ञः सर्वधर्मज्ञो भक्तिमान् पुरुषोत्तमः || ७||
अनुभावी महाधैर्यः शास्त्रज्ञो नित्यनूतनः |
प्रभावी भगवान् कृष्णश्चैतन्यो रसविग्रहः || ८||
अनादिनिधनो धाता धरणीमन्दनः शुचिः |
वराङ्गश्चञ्चलो दक्षः प्रतापी साधुसङ्गतः || ९||
उन्मादी उन्मदो वीरो धीरग्राणी रसप्रियः |
रक्ताम्बरो दण्डधरः संन्यासी यतिभूषणः || १०||
दण्डी छत्री चक्रपाणिः कृपालुः सर्वदर्शनः |
निरायुधः सर्वशास्ता कलिदोषप्रनाशनः || ११||
गुरुवर्यः कृपासिन्धुर्विक्रमी च जनार्दनः |
म्लेच्छग्राही कुनीतिघ्नो दुष्टहारी कृपाकुलः || १२||
ब्रह्मचारी यतिवरो ब्रह्मण्यो ब्राह्मणः सुधीः |
द्विजराजश्चक्रवर्ती कविः कृपणवत्सलः || १३||
निरीहः पावकोऽर्थज्ञो निर्धूमः पावकोपमः |
नारवन्द्यो हराकारो भविष्णुर्नरनायकः || १४||
दानवीरो युद्धवीरो दयावीरो वृकोदरः |
ज्ञानवीरो महावीरः शान्तिवीरः प्रतापनः || १५||
श्रीजिष्णुर्भ्रमिको जिष्णुः सहिष्णुश्चारुदर्शनः |
नरो वरीयान् दुर्दर्शो नवद्वीपसुधाकरः || १६||
चन्द्रहास्यश्चन्द्रनखो बलिमदुदरो बली |
सूर्यप्रभः सूर्यकांशुः सूर्याङ्गो मणिभूषणः || १७||
कम्भुकण्ठः कपोलश्रीर्निम्ननाभिः सुलोचनः |
जगन्नाथसुतो विप्रो रत्नाङ्गो रत्नभूषणः || १८||
तीर्थार्थी तीर्थदस्तीर्थस्तीर्थाङ्गस्तीर्थसाधकः |
तीर्थास्पदस्तीर्थवासस्तीर्थसेवी निराश्रयः || १९||
तीर्थालादी तीर्थप्रदो ब्राह्मको ब्रह्मणो भ्रमी |
श्रीवासपण्डितानन्दो रामानन्दप्रियङ्करः || २०||
गदाधरप्रियो दासो विक्रमी शङ्करप्रियः |
योगी योगप्रदो योगो योगकारी त्रियोगकृत् || २१||
सर्वः सर्वस्वदो भूमा सर्वाङ्गः सर्वसम्भवः |
वाणिर्बाणायुधो वादी वाचस्पतिरयोनिजः || २२||
बुद्धिः सत्यं बलं तेजो धृतिमान् जङ्गमकृतिः |
मुरारिर्वर्धनो धाता नृहरिः मानवर्धनः || २३||
निष्कर्मा कर्मदो नाथः कर्मज्ञः कर्मनाशकः |
अनर्घः कारकः कर्म क्रियार्हः कर्मबाधकः || २४||
निर्गुणो गुणवानीशो विधाता सामगोऽजितः |
जितश्वासो जितप्राणो जितानङ्गो जितेन्द्रियः || २५||
कृष्णभावी कृष्णनामी कृष्णात्मा कृष्णनायकः |
अद्वैतो द्वैतसाहित्यो द्विभावः पालको वशी || २६||
श्रीवासः श्रीधराहव्यो हलनायकसारवित् |
विश्वरूपानुजश्चन्द्रो वरीयान् माधवोऽच्युतः || २७||
रूपासक्तः सदाचारो गुणज्ञो बहुभावकः |
गुणहीनो गुणातीतो गुणग्राही गुणार्णवः || २८||
ब्रह्मानन्दो नित्यानन्दः प्रेमानन्दोऽतिनन्दकः |
निन्द्यहारी निन्द्यवर्जी निन्द्यघ्नः परितोषकः || २९||
यज्ञबाहुर्विनीतात्मा नामयज्ञप्रचारकः |
कलिवर्यः सुचिनांशुः पर्यांसुः पावकोपमः || ३०||
हिरण्यगर्भः सूक्ष्मात्मा वैराज्यो विरजापतिः |
विलासी प्रभावी स्वांशी परावस्थः शिरोमणिः || ३१||
मायाघ्नो मायिको मायी मायावादी विचक्षणः |
कृष्णाच्छादी कृष्णजल्पी विषयघ्नो निराकृतिः || ३२||
सङ्कल्पशून्यो मायीशो मायाद्वेशी व्रजप्रियः |
व्रजाधीशो व्रजपतिर्गोपगोकुलनन्दनः || ३३||
व्रजवासी व्रजभावो व्रजनायकसत्तमः |
गुप्तप्रियो गुप्तभावो वाञ्छितः सत्कुलाश्रयः || ३४||
रागानुगो रागसिन्धू रागात्मा रागवर्धनः |
रागोद्गतः प्रेमसाक्षी भट्टनाथः सनातनः || ३५||
गोपालभट्टगः प्रीतो लोकनाथप्रियः पटुः |
द्विभुजः षड्भुजो रूपी राजदर्पविनाशनः || ३६||
काशिमिश्रप्रियो वन्द्यो वन्दनीयः शचिप्रसूः |
मिश्रपुरन्दराधिसो रघुनाथप्रियो रयः || ३७||
सार्वभौमदर्पहारी अमोघारिर्वसुप्रियः |
सहजः सहजाधीशः शाश्वतः प्रणयातुरः || ३८||
किलकिञ्चिदभावार्तः पाण्डुगण्डः शुचातुरः |
प्रलापी बहुवाक् शुद्धः ऋजुर्वक्रगतिः शिवः || ३९||
घत्तायितोऽरविन्दाक्षः प्रेमवैचित्यलक्षकः |
प्रियाभिमानी चतुरः प्रियावर्ती प्रियोन्मुखः || ४०||
लोमाञ्चितः कम्पधरः अश्रुमुखो विशोकहा |
हास्यप्रियो हास्यकारी हास्ययुग् हास्यनागरः || ४१||
हास्यग्रामी हास्यकरस्त्रिभङ्गी नर्तनाकुलः |
ऊर्ध्वलोमा ऊर्ध्वहस्त ऊर्ध्वरावी विकारवान् || ४२||
भवोल्लासी धीरशान्तो धीरङ्गो धीरनायकः |
देवास्पदो देवधामा देवदेवो मनोभवः || ४३||
हेमाद्रिर्हेमलावण्यः सुमेरुर्ब्रह्मसादनः |
ऐरावतस्वर्णकान्तिः शरघ्नो वाञ्छितप्रदः || ४४||
करोभोरूः सुदीर्घाक्षः कम्पभ्रूचक्षुनासिकः |
नामग्रन्थी नामसङ्ख्या भावबद्धस्तृषाहरः || ४५||
पापाकर्षी पापहारी पापघ्नः पापशोधकः |
दर्पहा धनदोऽरिघ्नो मानहा रिपुहा मधुः || ४६||
रूपहा वेशहा दिव्यो दीनबन्धुः कृपामयः |
सुधक्षरः सुधास्वादी सुधामा कमनीयकः || ४७||
निर्मुक्तो मुक्तिदो मुक्तो मुक्ताख्यो मुक्तिबाधकः |
निःशङ्को निरहङ्कारो निर्वैरो विपदापहः || ४८||
विदग्धो नवलावण्यो नवद्वीपद्विज प्रभुः |
निरङ्कुशो देववन्द्यः सुराचार्यः सुरारिहा || ४९||
सुरवर्यो निन्द्यहारी वादघ्नः परितोषकः |
सुप्रकाशो बृहद्बाहुर्मित्रज्ञः कविभूषणः || ५०||
वरप्रदो वरपाङ्गो वरयुग् वरनायकः |
पुष्पहासः पद्मगन्धिः पद्मरागः प्रजागरः || ५१||
ऊर्ध्वगः सत्पथाचारी प्राणद ऊर्ध्वगायकः |
जनप्रियो जनाह्लादो जनकऋषि जनस्पृहः || ५२||
अजन्मा जन्मनिलयो जनानदो जनार्द्रधीः |
जगन्नाथो जगद्बन्धुर्जगद्देवो जगत्पतिः || ५३||
जनकारी जनामोदो जनकानन्दसाग्रहः |
कलिप्रियः कलिश्लाघ्यः कलिमानविवर्धनः || ५४||
कलिवर्यः सदानन्दः कलिकृत् कलिधन्यमान् |
वर्धामनः श्रुतिधरः वर्धनो वृद्धिदायकः || ५५||
सम्पदः शारणो दक्षो घृणाङ्गी कलिरक्षकः |
कलिधन्यः समयज्ञः कलिपुण्यप्रकाशकः || ५६||
निश्चिन्तो धीरललितो धीरवाक् प्रेयसीप्रियः |
वामास्पर्शी वामभावो वामरूपो मनोहरः || ५७||
अतीन्द्रियः सुराध्यक्षो लोकाध्यक्षः कृतकृतः |
युगादिकृद् युगकरो युगज्ञो युगनायकः || ५८||
युगावर्तो युगासीमः कालवान् कालशक्तिधृक् |
प्रणयः शाश्वतो हृष्टो विश्वजिद् बुद्धिमोहनः || ५९||
सन्ध्याता ध्यानकृद् ध्यानी ध्यानमङ्गलसन्धिमान् |
विस्रुतात्मा हृदिस्थिरो ग्रामनियप्रग्राहकः || ६०||
स्वरमूर्च्छी स्वरालापी स्वरमूर्तिविभूषणः |
गानग्राही गानलुब्धो गायको गानवर्धनः || ६१||
गानमान्यो ह्यप्रमेयः सत्कर्ता विश्वधृक् सहः |
क्षीराब्धिकमथाकारः प्रेमगर्भझषाकृतिः || ६२||
बीभत्सुर्भावहृदयः अदृश्यो बर्हिदर्शकः |
ज्ञानरुद्धो धीरबुद्धिरखिलात्मप्रियः सुधीः || ६३||
अमेयः सर्वविद्भानुर्बभ्रूर्बहुशिरो रुचिः |
उरुश्रवाः महादीर्घो वृषकर्मा वृषाकृतिः || ६४||
श्रुतिस्मृतिधरो वेदः श्रुतिज्ञः श्रुतिबाधकः |
हृदिस्पृश आस आत्मा श्रुतिसारो विचक्षणः || ६५||
कलापी निरनुग्राही वैद्यविद्याप्रचारकः |
मीमांसकारिर्वेदाङ्ग वेदार्थप्रभवो गतिः || ६६||
परावरज्ञो दुष्पारो विरहाङ्गी सतां गतिः |
असङ्ख्येयोऽप्रमेयात्मा सिद्धिदः सिद्धिसाधनः || ६७||
धर्मसेतुर्धर्मपरो धर्मात्मा धर्मभावनः |
उदीर्णसंशयच्छिन्नो विभूतिः शाश्वतः स्थिरः || ६८||
शुद्धात्मा शोभनोत्कण्ठोऽनिर्देश्यः साधनप्रियः |
ग्रन्थप्रियो ग्रन्थमयः शास्त्रयोनिर्महाशयः || ६९||
अवर्णो वर्णनिलयो नाश्रमी चतुराश्रमः |
अविप्र विप्रकृत् स्तुत्यो राजन्यो राज्यनाशकः || ७०||
अवश्यो वश्यताधीनः श्रीभक्तिव्यवसायकः |
मनोजवः पुरयिता भक्तिकीर्तिरनामयः || ७१||
निधिवर्जी भक्तिनिधिर्दुर्लभो दुर्गभावकृत् |
कर्तनीः कीर्तिरतुलः अमृतो मुरजप्रियः || ७२||
शृङ्गारः पञ्चमो भावो भावयोनिरनन्तरः |
भक्तिजित् प्रेमभोजी च नवभक्तिप्रचारकः || ७३||
त्रिगर्तस्त्रिगुणामोदस्त्रिवाञ्छी प्रीतिवर्धनः |
नियन्ता श्रमगोऽतीतः पोषणो विगतज्वरः || ७४||
प्रेमज्वरो विमानार्हः अर्थहा स्वप्ननाशनः |
उत्तारणो नामपुण्यः पापपुण्यविवर्जितः || ७५||
अपराधहरः पाल्यः स्वस्तिदः स्वस्तिभूषणः |
पूतात्मा पूतगः पूतः पूतभावो महास्वनः || ७६||
क्षेत्रज्ञः क्षेत्रविजयी क्षेत्रवासो जगत्प्रसूः |
भयहा भयदो भास्वान् गौणभावसमन्वितः || ७७||
मण्डितो मण्डलकरो वैजयन्तीपवित्रकः |
चित्राङ्गश्चित्रितश्चित्रो भक्तचित्तप्रकाशकः || ७८||
बुद्धिगो बुद्धिदो बुद्धिर्बुद्धिधृग् बुद्धिवर्धनः |
प्रेमाद्रिधृक् प्रेमवहो रतिवोढ रतिस्पृशः || ७९||
प्रेमचक्षुः प्रेमगह्नः प्रेमहृत् प्रेमपूरकः |
गम्भीरगो बहिर्वासो भावानुष्ठितगो पतिः || ८०||
नैकरूपो नैकभावो नैकात्मा नैकरूपधृक् |
श्लथसन्धिः क्षीणधर्मस्त्यक्तपाप उरुश्रवः || ८१||
उरुगाय उरुग्रीव उरुभाव उरुक्रमः |
निर्धूतो निर्मलो भावो निरीहो निरनुग्रहः || ८२||
निर्धूमोऽग्निः सुप्रतापस्तीव्रतापो हुताशनः |
एको महद्भूतव्यापी पृथग्भूतः अनेकशः || ८३||
निर्णयी निरनुज्ञातो दुष्टग्रामनिवर्तकः |
विप्रबन्धुः प्रियो रुच्यो रोचकाङ्गो नराधिपः || ८४||
लोकाध्यक्षः सुवर्णाभः कनकाब्जः शिखामणिः |
हेमकुम्भो धर्मसेतुर्लोकनाथो जगद्गुरुः || ८५||
लोहिताक्षो नामकर्मा भावस्थो हृद्गुहाशयः |
रसप्राणो रतिज्येष्ठो रसाब्धिरतिराकुलः || ८६||
भावसिन्धुर्भक्तिमेघो रसवर्षी जनाकुलः |
पीताब्जो नीलपीताभो रतिभोक्ता रसायनः || ८७||
अव्यक्तः स्वर्णराजीवो विवर्णी साधुदर्शनः |
अमृत्युः मृत्युदोऽरुद्धः सन्धाता मृत्युवञ्चकः || ८८||
प्रेमोन्मत्तः कीर्तनर्त्तः सङ्कीर्तनपिता सुरः |
भक्तिग्रामः सुसिद्धार्थः सिद्धिदः सिद्धिसाधनः || ८९||
प्रेमोदरः प्रेमवाहू लोकभर्ता दिशाम्पतिः |
अन्तः कृष्णो बहिर्गौरो दर्शको रतिविस्तरः || ९०||
सङ्कल्पसिद्धो वाञ्छात्मा अतुलः सच्छरीरभृत् |
ऋड्धार्थः करुणापाङ्गो नदकृद् भक्तवत्सलः || ९१||
अमत्सरः परानन्दः कौपीनी भक्तिपोषकः |
अकैतवो नाममाली वेगवान् पूर्णलक्षणः || ९२||
मिताशनो विवर्ताक्षो व्यवसाया व्यवस्थितः |
रतिस्थानो रतिवनः पश्चात्तुष्टः शमाकुलः || ९३||
क्षोभणो विरभो मार्गो मार्गधृग् वर्त्मदर्शकः |
नीचाश्रमी नीचमानी विस्तारो बीजमव्ययः || ९४||
मोहकायः सूक्ष्मगतिर्महेज्यः सत्त्रवर्धनः |
सुमुखः स्वापनोऽनादिः सुकृत् पापविदारणः || ९५||
श्रीनिवासो गभीरात्मा शृङ्गारकनकादृतः |
गभीरो गहनो वेधा साङ्गोपाङ्गो वृषप्रियः || ९६||
उदीर्णरागो वैचित्री श्रीकरः स्तवनार्हकः |
अश्रुचक्षुर्जलाब्यङ्ग पूरितो रतिपूरकः || ९७||
स्तोत्रायणः स्तवाध्यक्षः स्तवनीयः स्तवाकुलः |
ऊर्ध्वरेतः सन्निवासः प्रेममूर्तिः शतानलः || ९८||
भक्तबन्धुर्लोकबन्धुः प्रेमबन्धुः शताकुलः |
सत्यमेधा श्रुतिधरः सर्वशस्त्रभृतांवरः || ९९||
भक्तिद्वारो भक्तिगृहः प्रेमागारो निरोधहा |
उद्घूर्णो घूर्णितमना आघूर्नितकलेवरः || १००||
भवभ्रान्तिजसन्देहः प्रेमराशिः शुचापहः |
कृपाचार्यः प्रेमसङ्गो वयुनः स्थिरयौवनः || १०१||
सिन्धुगः प्रेमसङ्गाहः प्रेमवश्यो विचक्षणः |
पद्मकिञ्जल्कसङ्काशः प्रेमादारो नियामकः || १०२||
विरक्तो विगतारातिर्नापेक्षो नारददृतः |
नतस्थो दक्षिणः क्षामः शठजीवप्रतारकः || १०३||
नामप्रवर्तकोऽनर्थो धर्मोगुर्वादिपुरुषः |
न्यग्रोधो जनको जातो वैनत्यो भक्तिपादपः || १०४||
आत्ममोहः प्रेमलीधः आत्मभावानुगो विराट् |
माधुर्यवत् स्वात्मरतो गौरख्यो विप्ररूपधृक् || १०५||
राधारूपी महाभावी राध्यो राधनतत्परः |
गोपीनाथात्मकोऽदृश्यः स्वाधिकारप्रसाधकः || १०६||
नित्यास्पदो नित्यरूपी नित्यभावप्रकाशकः |
सुस्थभावश्चपलधीः स्वच्छगो भक्तिपोषकः || १०७||
सर्वत्रगस्तीर्थभूतो हृदिस्थः कमलासनः |
सर्वभावानुगाधीशः सर्वमङ्गलकारकः || १०८||
इत्येतत्कथितं नित्यं साहस्रं नामसुन्दरम् |
गोलोकवासिनो विष्णोर्गौररूपस्य शार्ङ्गिनः || १०९||
इदं गौरसहस्राख्याम् आमयघ्नं शुचापहम् |
प्रेमभक्तिप्रदं नृणां गोविन्दाकर्षकं परम् || ११०||
प्रातःकाले च मध्याह्ने सन्ध्यायां मध्यरात्रिके |
यः पठेत्प्रयतो भक्त्या चैतन्ये लभते रतिम् || १११||
नामात्मको गौरदेवो यस्य चेतसि वर्तते |
स सर्वं विषयं त्यक्त्वा भावानन्दो भवेद्ध्रुवम् || ११२||
यस्मै कस्मै न दातव्यम् दाने तु भक्तिहा भवेत् |
विनीताय प्रशान्ताय गौरभक्ताय धीमते || ११३||
तस्मै देयं ततो ग्राह्यमिति वैष्णवशासनम् ||
इति श्रीकृष्णचैतन्यचन्द्रस्य सहस्रनामस्तोत्रं संपूर्णम् ||