Blog Views

॥ ऋणमोचन स्तोत्रम् ॥ श्रीनृसिंह

 ॥ ऋणमोचन स्तोत्रम् ॥


ॐ देवानां कार्यसिध्यर्थं सभास्तंभसमुद्भवम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ १ ॥

लक्ष्म्यालिंगितवामांगं भक्तानामभयप्रदम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ २ ॥

प्रल्हादवरदं श्रीशं दैत्येश्र्वरविदारणम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ३ ॥

स्मरणात्सर्वपापघ्नं कद्रुजं विषनाशनम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ४ ॥

अंत्रमालाधरं शंखचक्राब्जायुधधारिणम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ५ ॥

सिंहनादेन महता दिग्दंतिभयदायकम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ६ ॥

कोटिसूर्यप्रतीकाशमभिचारिकनाशनम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ७ ॥

वेदांतवेद्यं यज्ञेशं ब्रह्मारुद्रादिसंस्तुतम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ८ ॥

ॐ इदं यो पठते नित्यं ऋणमोचनसंज्ञकं ।
अनृणीजायते सद्यो धनं शीघ्रमवाप्नुयात् ॥ ९ ॥

॥ इति श्रीनृसिंहपुराणे ऋणमोचनस्तोत्रं संपूर्णम् ॥

श्री गणपती स्थापना प्राणप्रतिष्ठा पूजाविधी अभिषेक सह

🟠🚩पुजा साहित्य यादी : हळद, कुंकु, गुलाल, शेंदूर, गूळ-खोबरे, समई, नीरंजन, अष्टगंध, अक्षदा, रांगोळी, फुलवात वात, तेलवात, काडे पेटी, पळी भांड...

Popular Blogs