Blog Views

संस्कृत आरती मारुतीची


संस्कृत आरती मारुतीची

जयदेव जयदेव मारुतिवरधीरा । आरति तव पदकमले भवतु मम सुधीरा ॥धृ०॥

अंजनिपुत्रं वन्दे वन्दे हरिवीरं । वन्दे वायुसुतं तं वन्दे रणधीरं ।
श्रीरामचन्द्रसीताशोकहरं शूरं । वन्दे शिवावतारं स्वभक्तसुखकारं ॥१॥

समुद्रतरणं लंकादहनं येन कृतं । इंद्रजिताध्वरहरणं कृतिना येन कृतं ।
सौमित्रिजीवनार्थं द्रोणगिरिं नीतं । वन्दे तं भगवन्तं हरिकुलहरिभक्तम् ॥२॥

अहिरावर्णमहिरावणरावणकुलनाशं । कृत्वा श्रीरामपदं घ्यात्वा भवनाशं ।
मत्वा श्रीरामंहृदं पाटितभुवनाशं । वन्दे तं हनुमन्तं स्वजनार्तिविनाशत् ॥३॥

यन्नाम्ना भवतरणं दुर्जनभयहरणं । असुरविषार्तिसुहरणं संसृतिहृज्ज्ञानं ।
भजकमनोरथपूर्णं धृतनामसुनामन् । वन्दे सुखाब्धिमग्नं नृसिंहयतिधीनम् ॥४॥

अशोककाका कुलकर्णी


श्री गणपती स्थापना प्राणप्रतिष्ठा पूजाविधी अभिषेक सह

🟠🚩पुजा साहित्य यादी : हळद, कुंकु, गुलाल, शेंदूर, गूळ-खोबरे, समई, नीरंजन, अष्टगंध, अक्षदा, रांगोळी, फुलवात वात, तेलवात, काडे पेटी, पळी भांड...

Popular Blogs