शनि वज्रपंज्जर कवचम ||
नीलांबरो नीलवपु: किरीटी
ग्रृध्रस्थितस्त्रास करो धनुष्मान |
चतुर्भुजः सुर्यसुतः प्रसन्नः
सदा मम स्याव्दरदः प्रशांतः |
ब्रम्हा उवाच |
शृणुध्वमृषयः सर्वे शनिपीडाहरं महत |
कवचं शनिराजस्य सौरेरिदमनुत्तमम ||२||
कवचं देवतावासं वज्रपंज्जरसंज्ञकम |
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम ||३||
ॐ श्रीशनैश्चर: पातु भालं मे सूर्यनंदन: |
नेत्रे छायात्मजः पातु पातु कर्णो यमानुजः ||४||
नासां वैवस्वत: पातु मुखं मे भास्करः सदा |
स्निग्धकंठश्च मे कंठ भुजौ पातु महाभुजः ||५||
स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रद: |
वक्ष पातु यमभ्राता कुक्षिं पात्वसितस्तथा ||६||
नाभिं ग्रहपती पातु मंद पातु कटिं तथा |
ऊरू ममांतक: पातु यमो जानुयुगं तथा ||७||
पादौ मन्दगति: पातु सर्वांग पातु पिप्पलः |
अंगोपांगानि सर्वाणि रक्षेन मे सुर्यनंदनः ||८||
इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः |
न तस्य जायते पीदा प्रीतो भवति सुर्यजः ||९||
व्ययजन्मव्दितीयस्थो मृत्युस्थानगतोSपि वा |
कलत्रस्थो गतो वापि सुप्रितस्तु सदा शनि: ||१०||
अष्टमस्थो सुर्यसुते व्यये जन्मव्दितीयगे |
कवचं पठते नित्यं न पीडा जायते क्वचित ||११||
इत्येतत्कवचं दिव्यं सौरेर्यनिर्मितं पुरा |
व्दादशाष्टमजन्मस्थदोषान्नाशयते सदा |
जन्मलग्नस्थितान दोषान सर्वान्नाशयते प्रभु: ||१२||
|| इति श्री ब्रम्हाण्ड पुराणे ब्रम्हनारदसंवादे
शनिवज्रपंज्जर कवचं संपुर्णम ||
वरील शनिवज्रपंज्जर कवचं अतिशय प्रभावी स्त्रोत्र असुन कठीणात कठीण शनि दोषातही
तारुन नेण्यास समर्थ आहे |