Blog Views

॥ गुरुवरप्रार्थनापंचरत्‍नस्तोत्रम् ॥

॥ गुरुवरप्रार्थनापंचरत्‍नस्तोत्रम् ॥

श्री गणेशाय नमः ॥
यं विज्ञातुं भृगु पितरमुपगतः पंचवारं यथावज्ज्ञानादेवामृताप्तेः सततमनुपमं चिद्विवेकादि लब्ध्वा ।
तस्मै तुभ्यं नमः श्रीहरिहरगुरवे सच्चिदानंदमुक्‍तानंताद्वैतप्रतिते न कुरु कितवतां पाहि मां दीनबंधो ॥ १ ॥

यस्मान्नश्यस्य जन्मस्थितिविलयमिमे तैत्तिरीयाः पठंति स्वाविद्यामात्रयोगात्सुखशयनतले मुख्यतः स्वप्नवच्च । तस्मै० ॥ २ ॥

यो वेदांतैकलभ्यं श्रुतिषु नियमितस्तैत्तिरीयैश्‍च काण्वैरन्यैरप्यानिषेकादुदयपरिमितं चारुसंस्कारभाजाम् । तस्मै० ॥ ३ ॥

यस्मिन्नेवावसन्नाः सकलनिगमवाङमौलयः सुप्तपुंसि प्रोक्‍तं तन्नामतद्वन्निजमहिमगतध्वांततत्कार्यरूपे । तस्मै० ॥ ४ ॥

चित्त्वात्संकल्पपूर्वं सृजति जगदिदं योगिवन्मायया नः स्वात्मन्येवाद्वितीये परमसुखदृशि स्वप्नवद् भूम्नि नित्ये ॥ तस्मै० ॥ ५ ॥

इत्यच्युतविरचितं गुरुवरप्रार्थनापञ्चरत्‍नस्तोत्रं संपूर्णम् ।

समर्थ रामदास रचित || श्री नरसिंह पंचक ||

|| श्री नरसिंह पंचक || नरहरी नरपाळें भक्तपाळें भुपाळें। प्रगट रूप विशाळें दाविलें लोकपाळें। खवळत रिपुकाळें काळकाळें कळाळें। तट तट तट स्तंभि ...

Popular Blogs