॥ श्री बलरामस्तोत्रम् ॥
श्रीः ॥ जय राम सदाराम सच्चिदानन्दविग्रह ।
अविद्यापङकगलितनिर्मलाकर ते नमः ॥ १ ॥
जयाखिलजगद्भारधारणश्रमवर्जित ।
तापत्रयविकर्षाय हलं कलयते सदा ॥ २ ॥
प्रपन्नदीनत्राणाय बलरामाय ते नमः ।
त्वमेवेश पराशेषकलुषक्षालनप्रभुः ॥ ३ ॥
प्रपन्नकरुणासिन्धो भक्तिप्रिय नमोऽस्तुते ।
चराचरफणाग्रेण धृता येन वसुन्धरा ॥ ४ ॥
मामुद्धरास्मद् दुष्पाराद्भवाम्भोधेरपारतः ।
परापराणां परमपरमेश नमोस्तु ते ॥ ५ ॥
इमं स्तवं यः पठति बलरामाधिदैवतम् ।
बलिष्ठः सर्वकार्येषु गरिष्ठः सोऽभिजायते ॥ ६ ॥
इति श्रीबलरामस्तोत्रम् संपूर्णम् ।