॥ एकदंतस्तोत्रम् ॥
श्रीगणेशायनम: ॥
मदासुरं सुशांतं वै दृष्ट्वा विष्णुमुखा: सुरा: ।
भृग्वादयश्च मुनय एकदंतं समाययु: ॥ १ ॥
प्रणम्य तं प्रपूज्यदौ पुनस्तं नेमुरादरात् ।
तुष्टुवुर्हर्षसंयुक्ता एकदंतं गणेश्वरम् ॥ २ ॥
देवर्षय ऊचु: ॥
सदात्मरूपं सकलादिभूतममायिनं सोहमचिंत्यबोधम् ।
अनादिमध्यांतविहीनमेकं तमेकदंतं शरणं व्रजाम: ॥ ३ ॥
अनंतचिद्रूपमयं गणेशं ह्यभेदभेदादिविहीनमाद्यम् ।
ह्रदिप्रकाशस्य धरं स्वधीस्थं तमेकदंतं शरणं व्रजाम: ॥ ४ ॥
विश्वादिभूतं ह्रदि योगिनां वै प्रत्यक्षरूपेण विभांतमेकम् ।
सदा निरालंबसमाधिगम्यं तमेकदंतं० ॥ ५ ॥
स्वबिंबभावेन विलासयुक्तं बिंदुस्वरूपा रचिता स्वमाया ।
तस्यां स्ववीर्यं प्रददाति यो वै तमेकदंतं० ॥ ६ ॥
त्वदीयवीर्येण समर्थभूता माया तया संरचितं च विश्वम् ।
नादात्मकं ह्यात्मतया प्रतीतं तमेकदंतं श० ॥ ७ ॥
त्वदीयसत्ताधरमेकदंतं गणेशमेकं त्रयबोधितारम् ।
सेवंत आपुस्तमजं त्रिसंस्थास्तमेकदंतं० ॥ ८ ॥
ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वै।
आनंदरूपं समभावसंस्थं तमेक० ॥ ९ ॥
तदेव विश्वं कृपया तवैव संभूतमाद्यं तमसा विभातम् ।
अनेकरूपं ह्यजमेकभूतं तमेक० ॥ १० ॥
ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् ।
सत्त्वात्मकं श्वेतमनंतमास्यं तमेक० ॥ ११ ॥
तदेव स्वप्नं तपसा गणेश संसिद्धिरूपं विविधं वभूव ।
सदेकरूपं कृपया तवापि तमेक० ॥ १२ ॥
संप्रेरितं तच्च त्वया ह्रदिस्थं तथा सुसृष्टं जगदंशरूपम् ।
तेनैव जाग्रन्मयमप्रमेयं तमेक० ॥ १३ ॥
जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव ।
तदा विभिन्नं भवदेकरूपं तमेक० ॥ १४ ॥
एवं च सृष्ट्वा प्रकृतिस्वभावात्तदंतरे त्वं च विभासि नित्यम् ।
बुद्धिप्रदाता गणनाथ एकस्तमेक० ॥ १५ ॥
त्वदाज्ञया भांति ग्रहाश्च सर्वे नक्षत्ररूपाणि विभांति खे वै ।
आधारहीनानि त्वया धृतानि तमेक० ॥ १६ ॥
त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णु: ।
त्वदाज्ञया संहरको हरोऽपि तमेक० ॥ १७ ॥
यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽप: प्रवहंति नद्य: ।
सीमां सदा रक्षति वै समुद्रस्तमेक० ॥ १८ ॥
यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् ।
यदाज्ञया शैलगणोऽचलो वै तमेक० ॥ १९ ॥
यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहप्रदश्च काम: ।
यदाज्ञया कालधरोऽर्यमा च तमेक० ॥ २० ॥
यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽर्ग्निजठरादिसंस्थ: ।
यदाज्ञया वै सचराचरं च तमेक० ॥ २१ ॥
सर्वांतरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति ।
अनंतरूपं ह्रदि बोधकं वै तमेक० ॥ २२ ॥
यं योगिनो योगबलेन साध्यं कुर्वति तं क:स्तवनेन स्तौति ।
अत: प्रणामेन सुसिद्धिदोऽस्तु तमेक० ॥ २३ ॥
गृत्समद उवाच ॥ एवं स्तुत्वा च प्रह्लाद देवा: समुनयश्च वै ।
तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसंयुता: ॥ २४ ॥
स तानुवाच प्रीतात्मा ह्येकदंत: स्तवेन वै ।
जगाद तान्महाभागान्देवर्षीन्भक्तवत्सल: ॥ २५ ॥
एकदंत उवाच॥ प्रसन्नोऽस्मि च स्तोत्रेण सुरा: सर्षिगणा: किल ।
वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६ ॥
भवत्कृतं मदीयं वै स्तोत्रं प्रीतिपदं मम ।
भविष्यति न संदेह: सर्वसिद्धिप्रदायकम् ॥ २७ ॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठत: ।
पुत्रपौत्रादिकं सर्व लभते धनधान्यकम् ॥ २८ ॥
गजाश्वादिकमत्यंतं राज्यभोगं लभेद् ध्रुवम् ।
भुक्तिं मुक्तिं च योगं वै लभते शांतिदायकम् ॥ २९ ॥
मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् ।
पठतां श्रृण्वतां नृणां भवेच्च बन्धहीनता ॥ ३० ॥
एकविंशतिवारं च श्लोकांश्चैवैकविंशतिम् ।
पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ॥ ३१ ॥
न तस्य दुर्लभं कित्र्चित्र्त्रिषु लोकेषु वै भवेत् ।
असाध्यं साधयेन्मर्त्य: सर्वत्र विजयी भवेत्॥ ३२ ॥
नित्यं य: पठते स्तोत्रं ब्रह्मभूत: स वै नर: ।
तस्य दर्शनत: सर्वे देवा: पूता भवंति वै ॥ ३३ ॥
एवं तस्य वच: श्रुत्वा प्रह्रष्टा देवतर्षय: ।
ऊचु: करपुटा: सर्वे भक्तियुक्ता गजाननम् ॥ ३४ ॥