॥ ॠणमोचनमहागणपतिस्तोत्रम् ||
श्रीगणेशायनमः||
ॐ अस्य श्रीॠणमोचन महागणपतिस्त्रोत्र मंत्रस्य
भगवान् शुक्राचार्याॠषि: ॠणमोचनगणपतिर्देवता ॠणमोचनार्थे जपे विनियोगः
ॐ स्मरामि देवदेवेशं वक्रतुण्डं महाबलं ||
महाविध्नहरं सौम्यं नमामि ॠणमुक्तये ||१||
महागणपतिं देवं महासत्यं महाबलं ||
महाविध्नहरं सौम्यं नमामि ॠणामुक्तये ||२||
एकाक्षरं एकदंतं एकब्रह्मसनातनं ||
एकमेवारव्दितीयं च नममि ॠणामुक्तये ||३||
रक्तांबरं रक्तवर्णं रक्तंगधानुलेपनं ||
रक्तपुष्पै: पूजामानं नमामि ॠणामुक्तये ||४||
कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनं ||
कृष्णपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ||५||
पीतांबरं पीतवर्णं पीतगंधानुलेपनं ||
पीतपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ||६||
धूम्रांबारं धूम्रवर्णं धूम्रगंधानुलेपनं ||
धूम्रपष्पै: पूज्यमानं नमामि ॠणमुक्तये ||७||
सर्वांबरं सर्ववर्णं सर्वगंधानुलेपनं ||
सर्वपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ||८||
भद्रजातं च रुपं च पाशांकुशधरं शुभं ||
सर्वविघ्नहरं देवं नमामि ॠणमुक्तये ||९||
यः पठेत् ॠणहरस्तोत्रं प्रातःकाले शुचिर्नरः ||
षण्मासाभ्यंतरे चैव ॠणच्छेदो भविष्यति ||१०||
इति श्रीब्रह्मांडपुराणे ॠणमोचनमहागणपतिस्तोत्रं संपूर्णम् |