Blog Views

॥विघ्नेश्वर प्रार्थना॥

॥विघ्नेश्वर प्रार्थना॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अगजानानपद्माकं गजाननमहर्निशम् ।
अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे॥
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
यं ब्रह्म वेदान्तविदो वदन्ति परे प्रधानं पुरुषं तथान्ये।
विश्वोद्गतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनायकाय॥
गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम् ।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम् ॥
मूषकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र।
वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूमकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेत् शृणुयादपि
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते॥

श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs