Blog Views

॥ संस्कृत पसायदान ॥

 संस्कृत पसायदान 

अद्य वाङ्मययज्ञेन विश्वात्मा मोदतां प्रभुः।
प्रसन्नीभूय दानं मे प्रसादस्य प्रयच्छतु ॥


खलानां वक्रता भिंद्यात् सत्कर्मासक्तिरेधताम्
प्राणिमात्रेमिथो हार्दं समुदेतु निरन्तरम् ॥


नाशमेतु तमोऽधानां धर्मादित्योऽस्तु सम्मुखम् ।
यदीच्छतीह यो जन्तुरकष्टं स तदाप्नुयात् ॥


सर्वमंगलवर्षावं कुरुद्भिरिह भूतले
भूतानामीशनिष्ठैश्च भूयात् संगो निरन्तरम् ॥


अर्बुदाः कल्पवृक्षाणां चरन्तो ये महीतले ।
चिचिन्तामणिविश्रामा वागीशाश्च सुधार्णवाः 


अलांछना नु ये सोमा ऊनदाहाश्च भास्कराः ।
सन्तु सन्तो हि सर्वेषां सुहृदः सर्वदैव ते ॥


आत्यंतिकं सुखं प्राप्य सर्वे त्रैलोक्यवासिभिः ।
ईड्य एवादिदेवोऽयं भूयः किं बहुनाऽधुना ॥


येषां जीवातुभूतोऽयं ग्रंथस्तेषां मुदात्मनाम् ।
इहामुत्रार्थभोगेभ्यो विरतिः स्यात् चिरंतनी ॥


तत ऊचे प्रसन्नात्मा श्रीविश्वेशः तथाऽस्त्विति ।
ज्ञानदेवो वरं वृत्वा निजानन्दे विराजितः ॥

 

समर्थ रामदास रचित || श्री नरसिंह पंचक ||

|| श्री नरसिंह पंचक || नरहरी नरपाळें भक्तपाळें भुपाळें। प्रगट रूप विशाळें दाविलें लोकपाळें। खवळत रिपुकाळें काळकाळें कळाळें। तट तट तट स्तंभि ...

Popular Blogs