॥ दशावतार स्तोत्रम् ॥
श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।
वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥ देवो नः शुभमातनोतु दशधा
निर्वर्तयन् भूमिकां रङ्गे धामनि लब्ध निर्भर रसैरध्यक्षितो भावुकैः । यद्भावेषु
पृथग्विधेष्वनुगुणान् भावान् स्वयं बिभ्रती यद्धर्मैरिह धर्मिणी विहरते
नानाकृतिर्नायिका ॥ १ ॥
देवो नः शुभमातनोतु निर्मग्न श्रुति जाल
मार्गण दशा दत्त क्षणैर्वीक्षणैः अन्तस्तन्वदिवारविन्द गहनान्यौदन्वतीनामपाम् ।
निष्प्रत्यूह तरङ्ग रिङ्गण मिथः प्रत्यूढ पाथश्छटा - डोलारोह सदोहलं भगवतो
मात्स्यं वपुः पातु नः ॥ २ ॥
अव्यासुर्भुवन त्रयीमनिभृतं कण्डूयनैरद्रिणा
निद्राणस्य परस्य कूर्म वपुषो निश्वास वातोर्मयः । यद्विक्षेपण संस्कृतो दधिपयः
प्रेङ्खोलपर्यङ्किका - नित्यारोहण निर्वृतो विहरते देवः सहैव श्रिया ॥ ३ ॥
गोपायेदनिशं जगन्ति कुहना पोत्री पवित्री कृत
- ब्रह्माण्डः प्रलयोर्मि घोष गुरुभिर्घोणा रवैर्घुर्घुरैः । यद्दंष्ट्राङ्कुर
कोटि गाढ घटना निष्कम्प नित्य स्थितिः ब्रह्म स्तम्बमसौदसौ भगवती मुस्तेव
विश्वम्भरा ॥ ४ ॥
प्रत्यादिष्ट पुरातन प्रहरण ग्रामः क्षणं
पाणिजैः अव्यात् त्रीणि जगन्त्यकुण्ठ महिमा वैकुण्ठ कण्ठीरवः ।
यत्प्रादुर्भवनादवन्ध्य जठरा यादृच्छिकाद् वेधसां या काचित् सहसा महासुर गृह
स्थूणा पितामह्यभूत् ॥ ५ ॥
व्रीडा विद्ध वदान्य दानव यशो नासीर धाटी भटः
त्रैयक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः । यत्प्रस्ताव समुच्छ्रित ध्वज
पटी वृत्तान्त सिद्धान्तिभिः स्रोतोभिः सुरसिन्धुरष्टसु दिशा सौधेषु दोधूयते ॥ ६
॥
क्रोधाग्निं जमदग्नि पीडन भवं सन्तर्पयिष्यन्
क्रमात् अक्षत्रामपि सन्ततक्ष य इमां त्रिःसप्त कृत्वः क्षितिम् । दत्वा कर्मणि
दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वसन् अब्रह्मण्यमपाकरोतु भगवानाब्रह्म कीटं
मुनिः ॥ ७ ॥
पारावार पयो विशोषण कला पारीण कालानल - ज्वाला
जाल विहार हारि विशिख व्यापार घोर क्रमः । सर्वावस्थ सकृत्प्रपन्न जनता संरक्षणैक
व्रती धर्मो विग्रहवानधर्म विरतिं धन्वी स तन्वीत नः ॥ ८ ॥
फक्कत्कौरव पट्टण प्रभृतयः प्रास्त
प्रलम्बादयः तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः । क्षीरं शर्करयेव
याभिरपृथग्भूताः प्रभूतैर्गुणैः आकौमारकमस्वदन्त जगते कृष्णस्य ताः केलयः ॥ ९
॥
नाथायैव नमःपदं भवतु नश्चित्रैश्चरित्र क्रमैः
भूयोभिर्भुवनान्यमूनि कुहना गोपाय गोपायते । कालिन्दी रसिकाय कालिय फणि स्फार
स्फटा वाटिका - रङ्गोत्सङ्ग विशङ्क चंक्रमधुरा पर्यायचर्या यते ॥ १० ॥
भाविन्या दशया भवन्निह भव ध्वंसाय नः कल्पतां
कल्की विष्णुयशस्सुतः कलि कथा कालुष्य कूलङ्कषः । निःशेष क्षत कण्टके क्षितितले
धारा जलौघैर्ध्रुवं धर्मं कार्तयुगं प्ररोहयति यन्निस्त्रिंश धाराधरः ॥ ११ ॥
इच्छा मीन विहार कच्छप महा पोत्रिन् यदृच्छा
हरे रक्षा वामन रोष राम करुणा काकुत्स्थ हेला हलिन् । क्रीडा वल्लव कल्क वाहन दशा
कल्किन्निति प्रत्यहं जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघ पण्यापणाः ॥
विद्योदन्वति वेङ्कटेश्वरकवौ जातं जगन्मङ्गलं देवेशस्य दशावतार विषयं स्तोत्रं
विवक्षेत यः । वक्त्रे तस्य सरस्वती बहु मुखी भक्तिः परा मानसे शुद्धिः कापि तनौ
दिशासु दशसु ख्यातिः शुभा जृम्भते ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते
वेङ्कटेशाय वेदान्तगुरवे नमः ॥
॥ न्यास दशकम् ॥
श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।
वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥ अहं मद्रक्षण भरो मद्रक्षण फलं तथा
। न मम श्रीपतेरेवेत्यात्मानं निक्षिपेद् बुधः ॥ १ ॥
न्यस्याम्यकिञ्चनः श्रीमन्ननुकूलोऽन्यवर्जितः
। विश्वास प्रार्थना पूर्वम् आत्मरक्षा भरं त्वयि ॥ २ ॥
स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
स्वदत्त स्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् ॥ ३ ॥
श्रीमन्नभीष्ट वरद त्वामस्मि शरणं गतः ।
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥ ४ ॥
त्वच्छेषत्वे स्थिर धियं त्वत्प्राप्त्येक
प्रयोजनम् । निषिद्ध काम्य रहितं कुरु मां नित्य किङ्करम् ॥ ५ ॥
देवी भूषण हेत्यादि जुष्टस्य भगवंस्तव ।
नित्यं निरपराधेषु कैंकर्येषु नियुङ्क्ष्व माम् ॥ ६ ॥
मां मदीयं च निखिलं चेतनाचेतनात्मकम् ।
स्वकैंकर्योपकरणं वरद स्वीकुरु स्वयम् ॥ ७ ॥
त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर ।
नप्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥ ८ ॥
अकृत्यानां च करणं कृत्यानां वर्जनं च मे ।
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥ ९ ॥
श्रीमान् नियत पञ्चाङ्गं मद्रक्षण भरार्पणम् ।
अचीकरत् स्वयं स्वस्मिन्नतोऽहमिह निर्भरः ॥ १० ॥
संसारावर्त वेग प्रशमन शुभदृग्देशिक
प्रेक्षितोऽहं सन्त्यक्तोऽन्यैरुपायैरनुचित चरितोष्वद्य शान्ताभिसन्धिः ।
निःशङ्कस्तत्वदृष्ट्या निरवधिकदयं प्रार्थ्य संरक्षकं त्वां न्यस्य त्वत्पादपद्मे
वरद निजभरं निर्भरो निर्भयोऽस्मि ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते
वेङ्कटेशाय वेदान्तगुरवे नमः ॥