अस्मद् गुरुभ्यो नमः
। अस्मत्परम गुरुभ्यो नमः । अस्मत्सर्व गुरुभ्यो नमः । श्रीमते श्री आदिवण् शठकोप
यतीन्द्र महा देशिकाय नमः । यस्याभवद्भक्त जनार्तिहन्तुः पितृत्वमन्येष्वविचार्य
तूर्णम् । स्तम्भेऽवतारस्तमनन्यलभ्यं लक्ष्मी नृसिंहं शरणं प्रपद्ये ॥ श्रीमान्
वेङ्कट नाथार्यः कवितार्किक केसरी । वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥
गुरुभ्यस्तद् गुरुभ्यश्च नमोवाकमधीमहे । वृणीमहे च तत्राद्यौ दम्पती जगतां पती ॥
श्रीमन्नभीष्ठ वरद । त्वामस्मि शरणं गतः ॥ स्वशेष भूतेन मया स्वीयैः सर्व
परिच्छदैः । विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम् । शुक्लाम्बरधरं विष्णुं
शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥
यस्य द्विरद वक्त्राद्याः पारिषद्याः परःशतम्
। विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ श्रीहयग्रीवस्तोत्रम्
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥
१ ॥
ज्ञानानन्दमयं देवं स्वतस्सिद्धं शुद्धस्फटिक
मणिभूभृत्प्रतिभटं सुधासध्रीचीभिर्धुतिभिरवदातत्रिभुवनम् ।
अनन्तैस्त्रय्यन्तैरनुविहित हेषाहलहलं हताशेषावद्यं हयवदनमीडीमहि महः ॥ २ ॥
स्वतस्सिद्धं शुद्धस्फटिक समाहारस्साम्नां
प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्वेधजलधेः ।
कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदन हेषा हलहलः ॥ ३ ॥
प्राची सन्ध्या काचिदन्तर्निशायाः
प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा । वक्त्री वेदान् भातु मे वाजिवक्त्रा वागीशाख्या
वासुदेवस्य मूर्तिः ॥ ४ ॥
विशुद्ध विज्ञानघन स्वरूपं विज्ञान विश्राणन
बद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ ५ ॥
अपौरुषेयैरपि वाक्प्रपञ्चैः अद्यापि ते
भूतिमदृष्टपाराम् । स्तुवन्नहं मुग्ध इति त्वयैव कारुण्यतो नाथ कटाक्षणीयः ॥ ६ ॥
दाक्षिण्यरम्या गिरिशस्य मूर्तिः देवी
सरोजासनधर्मपत्नी । व्यासादयोऽपि व्यपदेश्यवाचः स्फुरन्ति सर्वे तव शक्तिलेशैः ॥ ७
॥
मन्दोऽभविष्यन्नियतं विरिञ्चो वाचां निधे
वञ्चित भागधेयः । दैत्यापनीतान् दययैव भूयोऽपि अध्यापयिष्यो निगमान् न चेत् त्वाम्
॥ ८ ॥
वितर्कडोलां व्यवधूय सत्वे बृहस्पतिं वर्तयसे
यतस्त्वम् । तेनैव देव त्रिदशेश्वराणाम् अस्पृष्ट डोलायितमाधिराज्यम् ॥ ९ ॥
अग्नोउ समिद्धार्चिषि सप्ततन्तोः आतस्थिवान्
मन्त्रमयं शरीरम् । अखण्ड सारैर्हविषां प्रदानैः आप्यायनं व्योमसदां विधत्से ॥ १०
॥
यन्मूलमीदृक् प्रतिभाति तत्वं या मूलमाम्नाय
महाद्रुमाणाम् । तत्वेन जानन्ति विशुद्ध सत्वाः त्वामक्षरामक्षरमातृकां ते ॥ ११ ॥
अव्याकृताद् व्याकृत वानसि त्वं नामानि रूपाणि
च यानि पूर्वम् । शंसन्ति तेषां चरमां प्रतिष्टां वागीश्वर त्वां त्वदुपज्ञवाचः ॥
१२ ॥
मुग्धेन्दु निष्यन्द विलोभनीयां मूर्तिं
तवानन्द सुधा प्रसूतिम् । विपश्चितश्चेतसि भावयन्ते वेलामुदारामिव दुग्धसिन्धोः ॥
१३ ॥
मनोगतं पश्यति यः सदा त्वां मनीषिणां मानस
राजहंसम् । स्वयं पुरोभाव विवादभाजः किङ्कुर्वते तस्य गिरो यथार्हम् ॥ १४ ॥
अपि क्षणार्धं कलयन्ति ये त्वां आप्लावयन्तं
विशदैर्मयूखैः । वाचां प्रवाहैरनिवारितैस्ते मन्दाकिनीं मन्दयितुं क्षमन्ते ॥ १५ ॥
स्वामिन् भवद्ध्यान सुधाभिषेकात् वहन्ति
धन्याः पुलकानुबन्धम् । अलक्षिते क्वापि निरूढमूलं अङ्गेष्विवानन्दथुम् अङ्कुरन्तम्
॥ १६ ॥
स्वामिन् प्रतीचा हृदयेन धन्याः त्वद्ध्यन
चन्द्रोदय वर्धमानम् । अमान्तमानन्द पयोधिमन्तः पयोभिरक्ष्णां परिवाहयन्ति ॥ १७ ॥
स्वैरानुभावास्त्वदधीन भावाः
समृद्धवीर्यास्त्वदनुग्रहेण । विपश्चितो नाथ तरन्ति मायां वैहारिकीं मोहन
पिञ्छिकां ते ॥ १८ ॥
प्राङ् निर्मितानां तपसां विपाकाः
प्रत्यग्रनिश्श्रेयस सम्पदो मे । समेधिषीरंस्तव पादपद्मे सङ्कल्प चिन्तामणयः
प्रणामाः ॥ १९ ॥
विलुप्त मूर्धन्य लिपिक्रमाणां सुरेन्द्र
चूडापद लालितानाम् । त्वदङ्घ्रिराजीव रजः कणानां भूयान् प्रसादो मयि नाथ भूयात् ॥
२० ॥
परिस्फुरन्नूपुरचित्रभानु - प्रकाश निर्धूत
तमोनुषङ्गाम् । पदद्वयीं ते परिचिन्महेऽन्तः प्रबोध राजीव विभातसन्ध्याम् ॥ २१ ॥
त्वत्किङ्करालङ्करणोचितानां त्वयैव कल्पान्तर
पालितानाम् । मञ्जुप्रणादं मणिनूपुरं ते मञ्जूषिकां वेदगिरां प्रतीमः ॥ २२ ॥
संचिन्तयामि प्रतिभादशास्थान् संधुक्षयन्तं
समयप्रदीपान् । विज्ञान कल्पद्रुम पल्लवाभं व्याख्यान मुद्रा मधुरं करं ते ॥ २३ ॥
चित्ते करोमि स्फुरिताक्षमालं सव्येतरं नाथ
करं त्वदीयम् । ज्ञानामृतोदञ्चन लम्पटानां लीलाघटीयन्त्रमिवाश्रितानाम् ॥ २४ ॥
प्रबोध सिन्धोररुणैः प्रकाशैः प्रवाल
सङ्घातमिवोद्वहन्तम् । विभावये देव सपुस्तकं ते वामं करं दक्षिणमाश्रितानाम् ॥ २५
॥
तमांसि भित्वा विशदैर्मयूखैः सम्प्रीणयन्तं
विदुषश्चकोरान् । निशामये त्वां नवपुण्डरीके शरद्घने चन्द्रमिव स्फुरन्तम् ॥ २६ ॥
दिशन्तु मे देव सदा त्वदीयाः दयातरङ्गानुचराः
कटाक्षाः । श्रोत्रेषु पुंसाममृतं क्षरन्तीं सरस्वतीं संश्रित कामधेनुम् ॥ २७ ॥
विशेषवित्वारिषदेषु नाथ विदग्ध
गोष्ठीसमराङ्गणेषु । जिगीषतो मे कवितार्किकेन्द्रान् जिह्वाग्र सिंहासनमभ्युपेयाः
॥ २८ ॥
त्वां चिन्तयंस्त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना । स्वामिन् समाजेषु समेधिषीय स्वच्छन्द वादाहव
बद्धशूरः ॥ २९ ॥
नानाविधानामगतिः कलानां न चापि तीर्थेषु
कृतावतारः । ध्रुवं तवानाथपरिग्रहायाः नवं नवं पात्रमहं दयायाः ॥ ३० ॥
अकम्पनीयान्यपनीति भेदैः अलंकृषीरन् हृदयं
मदीयम् । शङ्काकलङ्का पगमोज्ज्वलानि तत्वानि सम्यञ्चि तव प्रसादात् ॥ ३१ ॥
व्याख्या मुद्रां करसरसिजैः पुस्तकं शङ्कचक्रे
बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः । अम्लानश्रीरमृतविशदैरंशुभिः
प्लावयन् मां आविर्भूयादनघ महिमा मानसे वागधीशः ॥ ३२ ॥
व्याख्या मुद्रां करसरसिजैः वागर्थ
सिद्धिहेतोः पठत हयग्रीवसंस्तुतिं भक्त्या । कवितार्किक केसरिणा वेङ्कटनाथेन
विरचितामेताम् ॥ ३३ ॥
वागर्थ सिद्धिहेतोः कवितार्किकसिंहाय
कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥