॥
विघ्नेश्वर प्रार्थना ॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत्
सर्व विघ्नोपशान्तये ॥ १ ॥
अगजानन पद्मार्कं गजानन महर्निशम् । अनेकदन्तं भक्तानां
एकदन्तमुपास्महे ॥ २ ॥
यं ब्रह्म वेदान्तविदो वदन्ति परे प्रधानं पुरुषं तथान्ये ।
विश्वोद्गतेः कारणमीश्वरंवा तस्मै नमो विघ्नविनायकाय ॥ ३ ॥
एकदन्तं महाकायं तप्तकांचन सन्निभम् । लम्बोदरं विशालाक्षं वन्देऽहं
गणनायकम् ॥ ४ ॥
मौञ्जी कृष्णाजिनधरं नाग यज्ञोपवीतिनम् । बालेन्दु शकलं मौळौ
वन्देऽहं गणनायकम् ॥ ५ ॥
चित्ररत्न विचित्राङ्ग चित्रमाला विभूषितम् । कामरूपधरं देवं
वन्देऽहं गणनायकम् ॥ ६ ॥
मूषकोत्तममारुह्य देवासुरमहाहवे । योद्धुकामं महावीर्यं वन्देऽहं
गणनायकम् ॥ ७ ॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामर भूषितम् । पाशाङ्कुशधरं देवं
वन्देऽहं गणनायकम् ॥ ८ ॥
यक्षकिन्नर गन्धर्व सिद्ध विद्याधरैस्सदा । स्तूयमानं महाबाहुं
वन्देऽहं गणनायकम् ॥ ९ ॥
अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् । भक्तप्रियं मदोन्मत्तं
वन्देऽहं गणनायकम् ॥ १० ॥
सर्वविघ्नकरं देवं सर्वविघ्न विवर्जितम् । सर्वसिद्धिप्रदातारं
वन्देऽहं गणनायकम् ॥ ११ ॥
मूषकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र । वामनरूप महेश्वर पुत्र
विघ्नविनायक पादनमस्ते ॥ १२ ॥
गजाननं भूतगणाधिसेवितम् कपित्थ जम्बूफलसार भक्षणम् । उमासुतं
शोकविनाशकारणम् नमामि विघ्नेश्वर पादपङ्कजम् ॥ १३ ॥
गणाष्टकमिदम्पुण्यं यःपठेत्सततं नरः । सिद्ध्यन्ति सर्वकार्याणि
विद्यावान् धनवान् भवेत् ॥ १४ ॥