॥ वैराग्य पञ्चकम् ॥
क्षोणी कोण शतांश
पालन कला दुर्वार गर्वानल- क्षुभ्यत्क्षुद्र नरेन्द्र चाटु रचना धन्यान् न
मन्यामहे । देवं सेवितुमेव निश्चिनुमहे योऽसौ दयालुः पुरा दाना मुष्टिमुचे कुचेल
मुनये दत्ते स्म वित्तेशताम् ॥ १ ॥
सिलं किमनलं
भवेदनलमौदरं बाधितुं पयः प्रसृति पूरकं किमु न धारकं सारसम् । अयत्न मल मल्लकं पथि
पटच्चरं कच्चरं भजन्ति विबुधा मुधा ह्यहह कुक्षितः कुक्षितः ॥ २ ॥
ज्वलतु जलधि क्रोड
क्रीडत्कृपीड भव प्रभा- प्रतिभट पटु ज्वाला मालाकुलो जठरानलः । तृणमपि वयं सायं
सम्फुल्ल मल्लि मतल्लिका परिमलमुचा वाचा याचामहे न महीश्वरान् ॥ ३ ॥
दुरीश्वर द्वार
बहिर्वितर्दिका- दुरासिकायै रचितोऽयमञ्जलिः । यदञ्जनाभं निरपायमस्ति मे धनञ्जय
स्यन्दन भूषणं धनम् ॥ ४ ॥
शरीर पतनावधि प्रभु
निषेवणापादनात् अबिन्धन धनञ्जय प्रशमदं धनं दन्धनम् । धनञ्जय विवर्धनं धनमुदूढ
गोवर्धनं सुसाधनमबाधनं सुमनसां समाराधनम् ॥ ५ ॥
नास्ति पित्रार्जितं
किञ्चिन्न मया किञ्चिदार्जितम् । अस्ति मे हस्ति शैलाग्रे वस्तु पैतामहं धनम् ॥ ६
॥