॥ श्रीस्तुतिः ॥
मानातीत प्रथित विभवां मङ्गलं
मङ्गलानां वक्षः पीठीं मधु विजयिनो भूषयन्तीं स्वकान्त्या । प्रत्यक्षानुश्रविक
महिम प्रार्थिनीनां प्रजानां श्रेयो मूर्ति श्रियमशरणस्त्वां शरण्यां प्रपद्ये ॥ १
॥
आविर्भावः कलश जलधावध्वरे वापि यस्याः
स्थानं यस्याः सरसिज वनं विष्णु वक्षः स्थलं वा । भूमा यस्या भुवनमखिलं देवि दिव्यं
पदं वा स्तोक प्रज्ञैरनवधि गुणा स्तूयसे सा कथं त्वम् ॥ २ ॥
स्तोतव्यत्वं दिशति भवती देहिभिः
स्तूयमाना तामेव त्वामनितर गतिः स्तोतुमाशंसमानः । सिद्धारम्भः सकल भुवन श्लाघनीयो
भवेयं सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥ ३ ॥
यत्सङ्कल्पाद्भवति कमले यत्र
देहिन्यमीषां जन्म स्थेम प्रलय रचना जङ्गमाजङ्गमानाम् । तत् कल्याणं किमपि
यमिनामेकलक्ष्यं समाधौ पूर्णं तेजः स्फुरति भवती पाद लाक्षा रसाङ्कम् ॥ ४ ॥
निष्प्रत्यूह प्रणय घटितं देवि
नित्यानपायं विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्य लक्ष्यम् । शेषश्चित्तं विमल
मनसां मौलयश्च श्रुतीनां सम्पद्यन्ते विहरण विधौ यस्य शय्या विशेषाः ॥ ५ ॥
उद्देश्यत्वं जननि भजतोरुज्झितोपाधि
गन्धं प्रत्यग्रूपे हविषि युवयोरेक शेषित्व योगात् । पद्मे पत्युस्तव च
निगमैर्नित्यमन्विष्यमाणो नावच्छेदं भजति महिमा नर्तयन् मानसं नः ॥ ६ ॥
पश्यन्तीषु श्रुतिषु परितः सूरि
बृन्देन सार्धं मध्ये कृत्य त्रिगुण फलकं निर्मित स्थान भेदम् । विश्वाधीश
प्रणयिनि सदा विभ्रम द्यूत वृत्तौ ब्रह्मेशाद्या दधति युवयोरक्ष शार प्रचारम् ॥ ७
॥
अस्येशाना त्वमसि जगतः संश्रयन्ती
मुकुन्दं लक्ष्मीः पद्मा जलधि तनया विष्णु पत्नीन्दिरेति । यन्नामानि श्रुति
परिपणान्येवमावर्तयन्तो नावर्तन्ते दुरित पवन प्रेरिते जन्म चक्रे ॥ ८ ॥
त्वामेवाहुः कतिचिदपरे त्वत्प्रियं
लोकनाथं किं तैरन्तः कलह मलिनैः किञ्चिदुत्तीर्य मग्नैः । त्वत्सम्प्रीत्यै विहरति
हरौ सम्मुखीनां श्रुतीनां भावारूढौ भगवति युवां दम्पती दैवतं नः ॥ ९ ॥
आपन्नार्ति प्रशमन विधौ बद्ध दीक्षस्य
विष्णोः आचख्युस्त्वां प्रिय सहचरिमैकमत्योपपन्नाम् । प्रादुर्भावैरपि सम तनुः
प्राध्वमन्वीयसे त्वं दूरोत्क्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः ॥ १० ॥
धत्ते शोभां हरि मरकते तावकी
मूर्तिराद्या तन्वी तुङ्ग स्तनभर नता तप्त जाम्बूनदाभा । यस्यां गच्छन्त्युदय
विलयैर्नित्यमानन्द सिन्धौ इच्छा वेगोल्लसित लहरी विभ्रमं व्यक्तयस्ते ॥ ११ ॥
आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः
यद् भ्रू भङ्गात् कुसुम धनुषः किङ्करो मेरु धन्वा । यस्यां नित्यं नयन शतकैरेक
लक्ष्यो महेन्द्रः पद्मे तासां परिणतिरसौ भाव लेशैस्त्वदीयैः ॥ १२ ॥
अग्रे भर्तुः सरसिज मये भद्र पीठे
निषण्णाम् अम्भो राशेरधिगत सुधा सम्प्लवादुत्थितां त्वाम् । पुष्पासार स्थगित
भुवनैः पुष्कलावर्तकाद्यैः कॢप्तारम्भाः कनक कलशैरभ्यषिञ्चन् गजेन्द्राः ॥ १३ ॥
आलोक्य त्वाममृत सहजे विष्णु
वक्षःस्थलस्थां शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः । लब्ध्वा
भूयस्त्रिभुवनमिदं लक्षितं त्वत्कटाक्षैः सर्वाकार स्थिर समुदयां सम्पदं
निर्विशन्ति ॥ १४ ॥
आर्त त्राण व्रतिभिरमृतासार
नीलाम्बुवाहैः अम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः । यस्यां यस्यां दिशि विहरते
देवि दृष्टिस्त्वदीया तस्यां तस्यामहमहमिकां तन्वते सम्पदोघाः ॥ १५ ॥
योगारम्भ त्वरित मनसो युष्मदैकान्त्य
युक्तं धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् । तेषां
भूमेर्धनपतिगृहादम्बरादम्बुधेर्वा धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥
१६ ॥
श्रेयस्कामाः कमलनिलये चित्रमाम्नाय
वाचां चूडापीडं तव पद युगं चेतसा धारयन्तः । छत्र च्छाया सुभग शिरसश्चामर स्मेर
पार्श्वाः श्लाघाशब्द श्रवण मुदिताः स्रग्विणः सञ्चरन्ति ॥ १७ ॥
ऊरीकर्तुं कुशलमखिलं जेतुमादीनरातीन्
दूरीकर्तुं दुरित निवहं त्यक्तुमाद्यामविद्याम् । अम्ब स्तम्बावधिक जनन ग्राम
सीमान्त रेखाम् आलम्बन्ते विमल मनसो विष्णु कान्ते दयां ते ॥ १८ ॥
जाताकाङ्क्षा जननि युवयोरेक सेवाधिकारे
मायालीढं विभवमखिलं मन्यमानास्तृणाय । प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो
भजन्ते वेलाभङ्गः प्रशमन फलं वैदिकं धर्मसेतुम् ॥ १९ ॥
सेवे देवि त्रिदश महिला मौलि
मालार्चितं ते सिद्धि क्षेत्रं शमित विपदां सम्पदां पाद पद्मम् । यस्मिन्नीषन्नमित
शिरसो यापयित्वा शरीरं वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ २० ॥
सानुप्रास प्रकटित दयैः सान्द्र
वात्सल्य दिग्धैः अम्ब स्निग्धैरमृत लहरी लब्ध सब्रह्यचर्यईः । धर्मे ताप त्र य
विरचिते गाढ तप्तं क्षणं माम् आकिञ्चन्य ग्लपितमनघैरार्द्रयेथाः कटाक्षैः ॥ २१ ॥
सम्पद्यन्ते भव भय तमी
भानवस्त्वत्प्रसादात् भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः । याचे किं
त्वामहमिह यतः शीतलोदार शीला भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥ २२ ॥
माता देवि त्वमसि भगवान् वासुदेवः पिता
मे जातः सोऽहं जननि युवयोरेकलक्ष्यं दयायाः । दत्तो युष्मत्परिजनतया
देशिकैरप्यतस्त्वं किं ते भूयः प्रियमिति किल स्मेर वक्त्रा विभासि ॥ २३ ॥
कल्याणानामविकल निधिः काऽपि कारुण्य
सीमा नित्यामोदा निगम वचसां मौलि मन्दार माला । सम्पद्दिव्या मधु विजयिनः
सन्निधत्तां सदा मे सैषा देवी सकल भुवन प्रार्थना कामधेनुः ॥ २४ ॥
उपचित गुरु भक्तेरुत्थितं वेङ्कटेशात्
कलि कलुष निवृत्त्यै कल्पमानं प्रजानाम् । सरसिज निलयायाः स्तोत्रमेतत् पठन्तः सकल
कुशल सीमाः सार्वभौमा भवन्ति ॥ २५ ॥