॥ गोदा
स्तुतिः ॥
श्रीविष्णुचित्त
कुल नन्दन कल्पवल्लीं श्रीरङ्गराज हरिचन्दन योग दृश्यम् । साक्षात् शमां करुणया
कमलामिवान्यां गोदामनन्यशरणः शरणं प्रपद्ये ॥ १ ॥
वैदेशिकः
श्रुति गिरामपि भूयसीनां वर्णेषु माति महिमा न हि मादृशां ते । इत्थं विदन्तमपि
मां सहसैव गोदे मौन द्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥ २ ॥
त्वत्प्रेयसः
श्रवणयोरमृतायमानां तुल्यां त्वदीय मणि नूपुर शिञ्जितानाम् । गोदे त्वमेव जननि
त्वदभिष्टवार्हां वाचं प्रसन्न मधुरां मम संविधेहि ॥ ३ ॥
कृष्णान्वयेन
दधतीं यमुनानुभावं तीर्थैर्यथावदवगाह्य सरस्वतीं ते । गोदे विकस्वर धियां भवती
कटाक्षात् वाचः स्फुरन्ति मकरन्द मुचः कवीनाम् ॥ ४ ॥
अस्मादृशामपकृतौ
चिर दीक्षितानां अह्नाय देवि दयते यदसौ मुकुन्दः । तन्निश्चितं नियमितस्तव मौलि
दाम्ना तन्त्री निनादमधुरैश्च गिरां निगुम्भैः ॥ ५ ॥
शोणाऽधरेऽपि
कुचयोरपि तुङ्गभद्रा वाचां प्रवाहनिवहेऽपि सरस्वती त्वम् । अप्राकृतैरपि
रसैर्विरजा स्वभावात् गोदाऽपि देवि कमितुर्ननु नर्मदाऽसि ॥ ६ ॥
वल्मीकतः
श्रवणतो वसुधात्मनस्ते जातो बभूव स मुनिः कवि सार्वभौमः । गोदे किमद्भुतमिदं यदमी
स्वदन्ते वक्त्रारविन्द मकरन्द निभाः प्रबन्धाः ॥ ७ ॥
भोक्तुं तव
प्रियतमं भवतीव गोदे भक्तिं निजां प्रणय भावनया गृणन्तः । उच्चावचैर्विरह
सङ्गमजैरुदन्तैः शृङ्गारयन्ति हृदयं गुरवस्त्वदीयाः ॥ ८ ॥
मातः
समुत्थितवतीमधि विष्णुचित्तं विश्वोपजीव्यममृतं वचसा दुहानाम् । तापच्छिदं हिम
रुचेरिव मूर्तिमन्यां सन्तः पयोधि दुहितुः सहजां विदुस्त्वाम् ॥ ९ ॥
तातस्तु ते
मधुभिदः स्तुति लेश वश्यात् कर्णामृतैः स्तुति शतैरनवाप्त पूर्वम् । त्वन्मौलि
गन्ध सुभगामुपहृत्य मालां लेभे महत्तर पदानुगुणं प्रसादम् ॥ १० ॥
दिक्
दक्षिणाऽपि परि पक्त्रिम पुण्य लभ्यात् सर्वोत्तरा भवति देवि तवावतारात् । यत्रैव
रङ्गपतिना बहुमान पूर्वं निद्रालुनापि नियतं निहिताः कटाक्षाः ॥ ११ ॥
प्रायेण देवि
भवती व्यपदेश योगात् गोदावरी जगदिदं पयसा पुनीते । यस्यां समेत्य समयेषु चिरं
निवासात् भागीरथी प्रभृतयोऽपि भवन्ति पुण्याः ॥ १२ ॥
नागे शयः
सुतनु पक्षिरथः कथं ते जातः स्वयंवर पतिः पुरुषः पुराणः । एवं विधाः समुचितं
प्रणयं भवत्याः सन्दर्शयन्ति परिहास गिरः सखीनाम् ॥ १३ ॥
त्वद्भुक्त
माल्य सुरभीकृत चारु मौलेः हित्वा भुजान्तर गतामपि वैजयन्तीम् । पत्युस्तवेश्वरि
मिथः प्रतिघात लोलाः बर्हातपत्र रुचिमारचयन्ति भृङ्गाः ॥ १४ ॥
आमोदवत्यपि
सदा हृदयं गमाऽपि रागान्विताऽपि ललिताऽपि गुणोत्तराऽपि । मौलि स्रजा तव मुकुन्द
किरीट भाजा गोदे भवत्यधरिता खलु वैजयन्ती ॥ १५ ॥
त्वन्मौलि
दामनि विभोः शिरसा गृहीते स्वच्छन्द कल्पित सपीति रस प्रमोदाः । मञ्जु स्वना मधु
लिहो विदधुः स्वयं ते स्वायंवरं कमपि मङ्गल तूर्य घोषम् ॥ १६ ॥
विश्वायमान
रजसा कमलेन नाभौ वक्षःस्थले च कमला स्तन चन्दनेन । आमोदितोऽपि निगमैर्विभुरङ्घ्रि
युग्मे धत्ते नतेन शिरसा तव मौलि मालाम् ॥ १७ ॥
चूडा पदेन
परिगृह्य तवोत्तरीयं मालामपि त्वदलकैरधिवास्य दत्ताम् । प्रायेण रङ्गपतिरेष
बिभर्ति गोदे सौभाग्य सम्पदभिषेक महाधिकारम् ॥ १८ ॥
तुङ्गैरकृत्रिम
गिरः स्वयमुत्तमाङ्गैः यं सर्वगन्ध इति सादरमुद्वहन्ति । आमोदमन्यमधिगच्छति
मालिकाभिः सोऽपि त्वदीय कुटिलालक वासिताभिः ॥ १९ ॥
धन्ये समस्त
जगतां पितुरुत्तमाङ्गे त्वन्मौलिमाल्य भर सम्भरणेन भूयः । इन्दीवर स्रजमिवादधति
त्वदीयानि आकेकराणि बहुमान विलोकितानि ॥ २० ॥
रङ्गेश्वरस्य
तव च प्रणयानुबन्धात् अन्योन्य माल्य परिवृत्तिमभिष्टुवन्तः । वाचालयन्ति वसुधे
रसिकास्त्रिलोकीं न्यूनाधिकत्व समता विषयैर्विवादैः ॥ २१ ॥
दूर्वा दल
प्रतिमया तव देह कान्त्या गोरोचना रुचिरया च रुचेन्दिरायाः । आसीदनुञ्झित शिखावल
कण्ठ शोभं माङ्गल्यदं प्रणमतां मधुवैरि गात्रम् ॥ २२ ॥
अर्च्यं
समर्च्य नियमैर्निगम प्रसूनैः नाथं त्वया कमलया च समेयिवांसम् । मातश्चिरं
निरविशन् निजमाधिराज्यं मान्या मनु प्रभृतयोऽपि महीक्षितस्ते ॥ २३ ॥
आर्द्रापराधिनि
जनेऽप्यभिरक्षणार्थं रङ्गेश्वरस्य रमया विनिवेद्यमाने । पार्श्वे परत्र भवती यदि
तत्र नासीत् प्रायेण देवि वदनं परिवर्तितं स्यात् ॥ २४ ॥
गोदे
गुणैरपनयन् प्रणतापराधान् भ्रूक्षेप एव तव भोग रसानुकूलः । कर्मानुबन्धि फल दान
रतस्य भर्तुः स्वातन्त्र्य दुर्व्यसन मर्म भिदा निदानम् ॥ २५ ॥
रङ्गे
तटिद्गुणवतो रमयैव गोदे कृष्णाम्बुदस्य घटितां कृपया सुवृष्ट्या । दौर्गत्य
दुर्विष विनाश सुधा नदीं त्वां सन्तःप्रपद्य शमयन्त्यचिरेण तापान् ॥ २६ ॥
जातापराधमपि
मामनुकम्प्य गोदे गोप्त्री यदि त्वमसि युक्तमिदं भवत्याः । वात्सल्य निर्भरतया
जननी कुमारं स्तन्येन वर्धयति दष्ट पयोधराऽपि ॥ २७ ॥
शतमख मणि
नीला चारु कल्हार हस्ता स्तन भर नमिताङ्गी सान्द्र वात्सल्य सिन्धुः । अलक
विनिहिताभिः स्रग्भिराकृष्ट नाथा विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥ २८ ॥
इति विकसित
भक्तेरुत्थितां वेङ्कटेशात् बहुगुण रमणीयां वक्ति गोदास्तुतिं यः । स भवति
बहुमान्यः श्रीमते रङ्गभर्तुः चरण कमल सेवां शाश्वतीमभ्युपैष्यन् ॥ २९ ॥