॥ चतुःस्लोकी
॥
कान्तस्ते
पुतुषोत्तमः फणिपतिः शय्याऽसनं वाहनं वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी
। ब्रह्मेशादिसुरव्रजः सदयितः त्वद्दासदासीगणः श्रीरित्येव च नाम ते भगवति !
ब्रूमः कथं त्वां वयम् ॥ १ ॥
यस्यास्ते
महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुः नालं मातुमियत्तया निरवधिं नित्यानुकूलं
स्वतः । तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयः लोकैकेश्वरि !
लोकनाथदयिते ! दान्ते दयां ते विदन् ॥ २ ॥
ईषत्
त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते नष्टं प्राक् तदलाभतस्त्रिभुवनं
सम्प्रत्यनन्तोदयम् । श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते
संसृत्यक्षरवैष्णवाध्वसु नृणां सम्भाव्यते कर्हिचित् ॥ ३ ॥
शान्तानन्तमहाविभूति
परमं यद् ब्रह्म रूपं हरेः मूर्तं ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतम् ।
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ता - न्याहुः स्वैरनरूपरूपविभवैर्गाढोपगूढानि
ते ॥ ४ ॥