Blog Views

॥ नन्दनन्दन श्रीकृष्णाष्टकम् ॥

॥ नन्दनन्दन श्रीकृष्णाष्टकम् ॥
भजे व्रजैकमंडनं समस्तपापखण्डनं स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् । सुपिच्छगुच्छ-मस्तकं सुनादवेणुहस्तकं अनंगरंगसागरं नमामि कृष्ण-नागरम् ॥ १ ॥

मनोज-गर्वमोचनं विशाल-लोल-लोचनं विधूतगोपशोचनं नमामि पद्मलोचनम् । करारविन्दभूवरं स्मितावलोकसुन्दरं महेन्द्रमानदारणं नमामि कृष्णवारणम् ॥ २ ॥

कदम्बसूनकुण्डलं सचारुगण्डमण्डलं व्रजाङ्गनैकवल्लभं नमामि कृष्ण-दुर्लभम् । यशोदया समोदया सगोपया सनन्दया युतं सुखैकदायकं नमामि गोपनायकम् ॥ ३ ॥

सदैव पादपंकजं मदीयमानसे निजं दधानमुत्तमालकं नमामि नन्दबालकम् । समस्तदोष-शोषणं समस्तलोकपोषणं समस्तगोप-मानसं नमामि कृष्णलालसम् ॥ ४ ॥

भुवो भरावतारकं भवाब्धिकर्णधारकं यशोमती-किशू-रकं नमामि दुग्धचोरकम् । दृगन्तकान्तभंगिनं सदासदालसंगिनं दिनेदिने नवं नवं नमामि नन्दसम्भवम् ॥ ५ ॥

गुणाकरं सुखाकरं कृपाकरं कृपावरं सुरद्विष-न्निकन्दनं नमामि गोपनन्दनम् । नवीनगोपनागरं नवीनकेलि-लम्पटं नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥ ६ ॥

समस्तगोपनन्दनं हृदम्बुजैकमोहनं नमामि कुंजमध्यगं प्रसन्नभानुशोभनम् । निकाम-कामदायकं दृगन्तचारु-सायकं रसालवेणु-गायकं नमामि कुंजनायकम् ॥ ७ ॥

विदग्ध-गोपिका-मनो-मनोज्ञतल्प-शायिनं नमामि कुंजकानने प्रवृद्ध-वह्नि-पायिनम् । यदा तदा यथा तथा तथैव कृष्णसत्कथा मया सदैव गीयतां तथा कृपा विधीयताम् । प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान् भवेत् स नन्दनन्दने भवे भवे सुभक्तिमान् ॥ ८ ॥


श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs