॥ श्लोकत्रयम् ॥
प्रातः स्मरामि भवभीति महार्ति शान्त्यै नारायणं गरुड वाहन मञ्जनाभम्
। ग्राहाभि भूत मदवारण मुक्ति हेतुं चक्रायुधं तरुण वारिज पत्रनेत्रम् ॥
प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्द युगळं परमस्य पुंसः । नारायणस्य
नरकार्णव तारणस्य पारायण प्रवण विप्र परायणस्य ॥ प्रातर्भजामि भजता मभयं करं तं
प्राक् सर्व जन्म कृत पाप भयापनुत्यै । यो ग्राहवक्त्र पतितान्घ्रि गजेन्द्र घोर
शोक प्रणाशन करो धृत शङ्ख चक्रः ॥ श्लोकत्रयमिदं पुण्यं प्रातरुत्थाय यः पठेत्
लोकत्रय गुरुस्तस्मै दध्यादात्मपदं हरिः