!! श्रीवाल्मिकिविरचितम्
गङ्गाष्टकं !!
॥
मातः शैलसुता-सपत्नि वसुधा-शृङ्गारहारावलि स्वर्गारोहण-वैजयन्ति भवतीं भागीरथीं
प्रार्थये । त्वत्तीरे वसतः त्वदंबु पिबतस्त्वद्वीचिषु प्रेङ्खतः त्वन्नाम
स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः ॥ १॥
त्वत्तीरे
तरुकोटरान्तरगतो गङ्गे विहङ्गो परं त्वन्नीरे नरकान्तकारिणि वरं मत्स्योऽथवा
कच्छपः । नैवान्यत्र मदान्धसिन्धुरघटासंघट्टघण्टारण- त्कारस्तत्र
समस्तवैरिवनिता-लब्धस्तुतिर्भूपतिः ॥ २॥
उक्षा
पक्षी तुरग उरगः कोऽपि वा वारणो वाऽ- वारीणः स्यां जनन-मरण-क्लेशदुःखासहिष्णुः । न
त्वन्यत्र प्रविरल-रणत्किङ्किणी-क्वाणमित्रं वारस्त्रीभिश्चमरमरुता वीजितो
भूमिपालः ॥ ३॥
काकैर्निष्कुषितं
श्वभिः कवलितं गोमायुभिर्लुण्टितं स्रोतोभिश्चलितं तटाम्बु-लुलितं
वीचीभिरान्दोलितम् । दिव्यस्त्री-कर-चारुचामर-मरुत्संवीज्यमानः कदा द्रक्ष्येऽहं
परमेश्वरि त्रिपथगे भागीरथी स्वं वपुः ॥ ४॥
अभिनव-बिसवल्ली-पादपद्मस्य
विष्णोः मदन-मथन-मौलेर्मालती-पुष्पमाला । जयति जयपताका काप्यसौ मोक्षलक्ष्म्याः
क्षपित-कलिकलङ्का जाह्नवी नः पुनातु ॥ ५॥
एतत्ताल-तमाल-साल-सरलव्यालोल-वल्लीलता-
च्छत्रं सूर्यकर-प्रतापरहितं शङ्खेन्दु-कुन्दोज्ज्वलम् ।
गन्धर्वामर-सिद्ध-किन्नरवधू-तुङ्गस्तनास्पालितं स्नानाय प्रतिवासरं भवतु मे गाङ्गं
जलं निर्मलम् ॥ ६॥
गाङ्गं
वारि मनोहारि मुरारि-चरणच्युतम् । त्रिपुरारि-शिरश्चारि पापहारि पुनातु माम् ॥ ७॥
पापापहारि
दुरितारि तरङ्गधारि शैलप्रचारि गिरिराज-गुहाविदारि । झङ्कारकारि हरिपाद-रजोपहारि
गाङ्गं पुनातु सततं शुभकारि वारि ॥ ८॥
गङ्गाष्टकं
पठति यः प्रयतः प्रभाते वाल्मीकिना विरचितं शुभदं मनुष्यः । प्रक्षाल्य
गात्र-कलिकल्मष-पङ्क-माशु मोक्षं लभेत् पतति नैव नरो भवाब्धौ ॥ ९॥
॥
इति वाल्मीकिविरचितं गङ्गाष्टकं सम्पूर्णम् ॥