Blog Views

श्री बलरामस्तोत्रम्

श्री बलरामस्तोत्रम्

श्रीः ॥ जय राम सदाराम सच्चिदानन्दविग्रह । अविद्यापङकगलितनिर्मलाकर ते नमः ॥ १ ॥

जयाखिलजगद्भारधारणश्रमवर्जित । तापत्रयविकर्षाय हलं कलयते सदा ॥ २ ॥

प्रपन्नदीनत्राणाय बलरामाय ते नमः । त्वमेवेश पराशेषकलुषक्षालनप्रभुः ॥ ३ ॥

प्रपन्नकरुणासिन्धो भक्तिप्रिय नमोऽस्तुते । चराचरफणाग्रेण धृता येन वसुन्धरा ॥ ४ ॥

मामुद्धरास्मद्‌ दुष्पाराद्भवाम्भोधेरपारतः । परापराणां परमपरमेश नमोस्तु ते ॥ ५ ॥

इमं स्तवं यः पठति बलरामाधिदैवतम् । बलिष्ठः सर्वकार्येषु गरिष्ठः सोऽभिजायते ॥ ६ ॥

इति श्रीबलरामस्तोत्रम् संपूर्णम् ।


श्री गणपती स्थापना प्राणप्रतिष्ठा पूजाविधी अभिषेक सह

🟠🚩पुजा साहित्य यादी : हळद, कुंकु, गुलाल, शेंदूर, गूळ-खोबरे, समई, नीरंजन, अष्टगंध, अक्षदा, रांगोळी, फुलवात वात, तेलवात, काडे पेटी, पळी भांड...

Popular Blogs