|| देव्यष्टकम् ||
----------------------------
----------------------------
महादेवीं
महाशक्तिं भवानीं भववल्लभाम् ।
भवार्तिभञ्जनकरीं वन्दे त्वां लोकमातरम् ॥ १ ॥

भक्तप्रियां
भक्तिगम्यां भक्तानां कीर्तिवार्धिकाम् ।
भवप्रियां सतीं देवीं वन्दे त्वां भक्तवशिनत्सलाम् ॥ २ ॥

अन्नपूर्णां
सदापूर्णां पार्वतीं पर्वपूजिताम् ।
महेश्र्वरीं वृषभारुढां वंदे त्वां परमेश्र्वरीम् ॥ ३ ॥

कालरात्रिं
महारात्रिं मोहरात्रिं जनेश्र्वरीम् ।
शिवकान्तां शम्भुशक्तिं वंदे त्वां जननीमुमाम् ॥ ४ ॥

जगत्कर्त्रीं
जगद्धात्रीं जगत्संहारकारिणीम् ।
मुनिभिः संस्तुता भद्रां वंदे त्वां मोक्षदायिनीम् ॥ ५ ॥

देवदुःखहरामंबां
सदा देवसहायकाम् ।
मुनिदेवैः सदा सेव्यां वंदे त्वां देवपूजिताम् ॥ ६ ॥

त्रिनेत्रां
शंकरीं गौरीं भोगमोक्षप्रदां शिवाम् ।
महामायां जगद्वीजां वंदे त्वां जगदीश्र्वरीम् ॥ ७ ॥

शरणागतजीवानां
सर्वदुःखविनाशिनीम् ।
सुखसंपत्करीं नित्यां वंदे त्वां प्रकृतिं पराम् ॥ ८ ॥

देव्यष्टकमिदं
पुण्यं योगानन्देन निर्मितम् ।
यः पठेद्भक्तिभावेन लभते स परं सुखम् ॥ ९ ॥

॥
इति देव्यष्टकं संपूर्णम् ॥
================
================