।। सूर्याष्टक स्तोत्र ।।
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर |
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ||
सप्ताश्वरथमारूढं प्रचण्डं
कश्यपात्मजम् |
श्वेतपद्मधरं देवं तँ सूर्यं
प्रणमाम्यहं ||
लोहितं रथमारूढं सर्वलोकपितामहम् |
महापापहरं देवं तँ सूर्यं प्रणमाम्यहं ||
त्रैगुण्यं च महाशूरं
ब्रह्मविष्णुमहेश्वरं |
महापापहरं देवं तँ सूर्यं प्रणमाम्यहं ||
बृंहितं तेजःपुंजं च वायुमाकाशमेव च |
प्रभुं च सर्वलोकानां तँ सूर्यं
प्रणमाम्यहं ||
बन्धूकपुष्पसंकाशं हारकुण्डलभूषितम् |
एकचक्रधरं देवं तँ सूर्यं प्रणमाम्यहं ||
तँ सूर्य जगत्कर्तारं महातेजःप्रदीपनम्
|
महापापहरं देवं तँ सूर्यं प्रणमाम्यहं ||
तँ सूर्यं जगतां नाथं
ज्ञानविज्ञानमोक्षदम् |
महापापहरं देवं तँ सूर्यं प्रणमाम्यहं ||
|| श्रीशिवप्रोक्तं सूर्याष्टकं
सम्पूर्णं ||