मंगलाचरण श्रीगणेशाय नमः
स जयति सिंधुर वदनो देवो यत्पादपंकजस्मरणम् । वासरमणिरिव तमसां राशीं नाशयति विघ्नानाम् ।।१।।
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ।।२।।
धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि।।३। विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ।।४
शुक्लांबरधरं देवं शशिवर्ण चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ।।५।।