Blog Views

श्री लक्ष्मी सहस्रनाम स्तोत्रम

श्री लक्ष्मी सहस्रनाम स्तोत्रम


नाम्नां साष्टसहस्रञ्च ब्रूहि गार्ग्य महामते ।

महालक्ष्म्या महादेव्या भुक्तिमुक्त्यर्थसिद्धये ॥ १ ॥


गार्ग्य उवाच

सनत्कुमारमासीनं द्वादशादित्यसन्निभम् ।

अपृच्छन्योगिनो भक्त्या योगिनामर्थसिद्धये ॥ २ ॥


सर्वलौकिककर्मभ्यो विमुक्तानां हिताय वै ।

भुक्तिमुक्तिप्रदं जप्यमनुब्रूहि दयानिधे ॥ ३ ॥


सनत्कुमार भगवन्सर्वज्ञोऽसि विशेषतः ।

आस्तिक्यसिद्धये नॄणां क्षिप्रधर्मार्थसाधनम् ॥ ४ ॥


खिद्यन्ति मानवास्सर्वे धनाभावेन केवलम् ।

सिद्ध्यन्ति धनिनोऽन्यस्य नैव धर्मार्थकामनाः ॥ ५ ॥


दारिद्र्यध्वंसिनी नाम केन विद्या प्रकीर्तिता ।

केन वा ब्रह्मविद्याऽपि केन मृत्युविनाशिनी ॥ ६ ॥


सर्वासां सारभूतैका विद्यानां केन कीर्तिता ।

प्रत्यक्षसिद्धिदा ब्रह्मन् तामाचक्ष्व दयानिधे ॥ ७ ॥


सनत्कुमार उवाच

साधु पृष्टं महाभागास्सर्वलोकहितैषिणः ।

महतामेष धर्मश्च नान्येषामिति मे मतिः ॥ ८ ॥


ब्रह्मविष्णुमहादेवमहेन्द्रादिमहात्मभिः ।

सम्प्रोक्तं कथयाम्यद्य लक्ष्मीनामसहस्रकम् ॥ ९ ॥


यस्योच्चारणमात्रेण दारिद्र्यान्मुच्यते नरः ।

किं पुनस्तज्जपाज्जापी सर्वेष्टार्थानवाप्नुयात् ॥ १० ॥


अस्य श्रीलक्ष्मीदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य आनन्दकर्दमचिक्लीतेन्दिरासुतादयो महात्मानो महर्षयः अनुष्टुप्छन्दः विष्णुमाया शक्तिः महालक्ष्मीः परादेवता श्रीमहालक्ष्मीप्रसादद्वारा सर्वेष्टार्थसिद्ध्यर्थे जपे विनियोगः ।

ध्यानम्

पद्मनाभप्रियां देवीं पद्माक्षीं पद्मवासिनीम् ।

पद्मवक्त्रां पद्महस्तां वन्दे पद्मामहर्निशम् ॥ १ ॥


पूर्णेन्दुवदनां दिव्यरत्नाभरणभूषिताम् ।

वरदाभयहस्ताढ्यां ध्यायेच्चन्द्रसहोदरीम् ॥ २ ॥


इच्छारूपां भगवतस्सच्चिदानन्दरूपिणीम् ।

सर्वज्ञां सर्वजननीं विष्णुवक्षस्स्थलालयाम् ।

दयालुमनिशं ध्यायेत्सुखसिद्धिस्वरूपिणीम् ॥ ३ ॥


स्तोत्रम्

नित्यागतानन्तनित्या नन्दिनी जनरञ्जनी ।

नित्यप्रकाशिनी चैव स्वप्रकाशस्वरूपिणी ॥ १ ॥


महालक्ष्मीर्महाकाली महाकन्या सरस्वती ।

भोगवैभवसन्धात्री भक्तानुग्रहकारिणी ॥ २ ॥


ईशावास्या महामाया महादेवी महेश्वरी ।

हृल्लेखा परमा शक्तिर्मातृकाबीजरूपिणी ॥ ३ ॥


नित्यानन्दा नित्यबोधा नादिनी जनमोदिनी ।

सत्यप्रत्ययनी चैव स्वप्रकाशात्मरूपिणी ॥ ४ ॥


त्रिपुरा भैरवी विद्या हंसा वागीश्वरी शिवा ।

वाग्देवी च महारात्रिः कालरात्रिस्त्रिलोचना ॥ ५ ॥


भद्रकाली कराली च महाकाली तिलोत्तमा ।

काली करालवक्त्रान्ता कामाक्षी कामदा शुभा ॥ ६ ॥


चण्डिका चण्डरूपेशा चामुण्डा चक्रधारिणी ।

त्रैलोक्यजयिनी देवी त्रैलोक्यविजयोत्तमा ॥ ७ ॥


सिद्धलक्ष्मीः क्रियालक्ष्मीर्मोक्षलक्ष्मीः प्रसादिनी ।

उमा भगवती दुर्गा चान्द्री दाक्षायणी शिवा ॥ ८ ॥


प्रत्यङ्गिरा धरावेला लोकमाता हरिप्रिया ।

पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ॥ ९ ॥


अरूपा बहुरूपा च विरूपा विश्वरूपिणी ।

पञ्चभूतात्मिका वाणी पञ्चभूतात्मिका परा ॥ १० ॥


काली मा पञ्चिका वाग्मी हविःप्रत्यधिदेवता ।

देवमाता सुरेशाना देवगर्भाऽम्बिका धृतिः ॥ ११ ॥


सङ्ख्या जातिः क्रियाशक्तिः प्रकृतिर्मोहिनी मही ।

यज्ञविद्या महाविद्या गुह्यविद्या विभावरी ॥ १२ ॥


ज्योतिष्मती महामाता सर्वमन्त्रफलप्रदा ।

दारिद्र्यध्वंसिनी देवी हृदयग्रन्थिभेदिनी ॥ १३ ॥


सहस्रादित्यसङ्काशा चन्द्रिका चन्द्ररूपिणी ।

गायत्री सोमसम्भूतिस्सावित्री प्रणवात्मिका ॥ १४ ॥


शाङ्करी वैष्णवी ब्राह्मी सर्वदेवनमस्कृता ।

सेव्यदुर्गा कुबेराक्षी करवीरनिवासिनी ॥ १५ ॥


जया च विजया चैव जयन्ती चाऽपराजिता ।

कुब्जिका कालिका शास्त्री वीणापुस्तकधारिणी ॥ १६॥


सर्वज्ञशक्तिश्श्रीशक्तिर्ब्रह्मविष्णुशिवात्मिका ।

इडापिङ्गलिकामध्यमृणालीतन्तुरूपिणी ॥ १७॥


यज्ञेशानी प्रथा दीक्षा दक्षिणा सर्वमोहिनी ।

अष्टाङ्गयोगिनी देवी निर्बीजध्यानगोचरा ॥ १८॥


सर्वतीर्थस्थिता शुद्धा सर्वपर्वतवासिनी ।

वेदशास्त्रप्रभा देवी षडङ्गादिपदक्रमा ॥ १९॥


शिवा धात्री शुभानन्दा यज्ञकर्मस्वरूपिणी ।

व्रतिनी मेनका देवी ब्रह्माणी ब्रह्मचारिणी ॥ २०॥


एकाक्षरपरा तारा भवबन्धविनाशिनी ।

विश्वम्भरा धराधारा निराधाराऽधिकस्वरा ॥ २१॥


राका कुहूरमावास्या पूर्णिमाऽनुमतिर्द्युतिः ।

सिनीवाली शिवाऽवश्या वैश्वदेवी पिशङ्गिला ॥ २२॥


पिप्पला च विशालाक्षी रक्षोघ्नी वृष्टिकारिणी ।

दुष्टविद्राविणी देवी सर्वोपद्रवनाशिनी ॥ २३॥


शारदा शरसन्धाना सर्वशस्त्रस्वरूपिणी ।

युद्धमध्यस्थिता देवी सर्वभूतप्रभञ्जनी ॥ २४॥


अयुद्धा युद्धरूपा च शान्ता शान्तिस्वरूपिणी ।

गङ्गा सरस्वतीवेणीयमुनानर्मदापगा ॥ २५॥


समुद्रवसनावासा ब्रह्माण्डश्रोणिमेखला ।

पञ्चवक्त्रा दशभुजा शुद्धस्फटिकसन्निभा ॥ २६॥


रक्ता कृष्णा सिता पीता सर्ववर्णा निरीश्वरी ।

कालिका चक्रिका देवी सत्या तु वटुकास्थिता ॥ २७॥


तरुणी वारुणी नारी ज्येष्ठादेवी सुरेश्वरी ।

विश्वम्भराधरा कर्त्री गलार्गलविभञ्जनी ॥ २८॥


सन्ध्यारात्रिर्दिवाज्योत्स्ना कलाकाष्ठा निमेषिका ।

उर्वी कात्यायनी शुभ्रा संसारार्णवतारिणी ॥ २९॥


कपिला कीलिकाऽशोका मल्लिकानवमल्लिका । 

देविका नन्दिका शान्ता भञ्जिका भयभञ्जिका ॥ ३०॥


कौशिकी वैदिकी देवी सौरी रूपाधिकाऽतिभा ।

दिग्वस्त्रा नववस्त्रा च कन्यका कमलोद्भवा ॥ ३१॥


श्रीस्सौम्यलक्षणाऽतीतदुर्गा सूत्रप्रबोधिका ।

श्रद्धा मेधा कृतिः प्रज्ञा धारणा कान्तिरेव च ॥ ३२॥


श्रुतिः स्मृतिर्धृतिर्धन्या भूतिरिष्टिर्मनीषिणी ।

विरक्तिर्व्यापिनी माया सर्वमायाप्रभञ्जनी ॥ ३३॥


माहेन्द्री मन्त्रिणी सिंही चेन्द्रजालस्वरूपिणी ।

अवस्थात्रयनिर्मुक्ता गुणत्रयविवर्जिता ॥ ३४॥


ईषणात्रयनिर्मुक्ता सर्वरोगविवर्जिता ।

योगिध्यानान्तगम्या च योगध्यानपरायणा ॥ ३५॥


त्रयीशिखा विशेषज्ञा वेदान्तज्ञानरूपिणी ।

भारती कमला भाषा पद्मा पद्मवती कृतिः ॥ ३६॥


गौतमी गोमती गौरी ईशाना हंसवाहिनी ।

नारायणी प्रभाधारा जाह्नवी शङ्करात्मजा ॥ ३७॥


चित्रघण्टा सुनन्दा श्रीर्मानवी मनुसम्भवा ।

स्तम्भिनी क्षोभिणी मारी भ्रामिणी शत्रुमारिणी ॥ ३८॥


मोहिनी द्वेषिणी वीरा अघोरा रुद्ररूपिणी।

रुद्रैकादशिनी पुण्या कल्याणी लाभकारिणी ॥ ३९॥



श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs