श्री शनैश्चर स्तोत्र
अस्य श्रीशनैश्चरस्तोत्रस्य । दशरथ ऋषि: शनैश्चर
देवता । त्रिष्टि पूछंदः । शनैश्वर प्रीत्यर्थे जपे विनियोगः । दशरथउवाच ।
कोणोऽन्तको रौद्रयमोऽय बभ्रुः कृष्णाः शनिः पिङ्गल मंदसौरः नित्य स्मृतो यो हरते च
पीडां तस्मै नमः श्री रवि-नन्दनाय ॥ १ ॥ सुरासुराः किंपुरुषा गणेन्द्रा गंधर्व
विद्याधरपत्रगाश्च | पीड्यन्ति सर्वे विषमस्थितेन तस्मै
नमः श्री रविनन्दनाय ॥ २ ॥ नरा नरेन्द्राः पश्वो मृगेन्द्रा बन्याश्च ये
कीटपतङ्गभृङ्गाः पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥ ३ ॥
देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशाः पुरपत्तनानि । पीड्यन्ति सर्वे
विषमास्थितेन तस्मै नमः श्रीरविनन्दनाय ॥ ४ ॥ तिलैर्यवैर्माणगुडात्रदानैलोहिन
नीलाम्बरदानतो वा । प्रीणाति मंत्रैर्निजवासरे च तस्मै नमः श्रीरविनन्दनाय ॥ ५ ॥
प्रयोगकूले यमुनातटे च सरस्वतीपुण्यजले गुहायाम् । यो योगिनां ध्यानगतोऽपि
सूक्ष्मस्तस्मै नमः श्रीरविनन्दनाय ॥ ६ ॥ अन्यप्रदेशात्स्वगृहं
प्रविष्टस्त्वदीयवारे स नरः सुखी स्यात् । गृहाद् गतो यो न पुनः प्रयाति तस्मै नमः
श्रीरविनन्दनाय ॥ ७ ॥ स्रष्टा स्वयंभूर्भुवनत्रयस्य भ्राता हरीशो हरते पिनाकी ।
एकस्त्रिधा ऋग्यजुःसाममूर्तिस्तस्मै नमः श्रीरविनन्दनाय ॥ ८ ॥ शन्यष्टकं य प्रयतः
प्रभाते नित्यं सुपुत्रैः पशुबान्धवैश्व | पठेच्च सौख्यं
भुवि भोगयुक्तं प्राप्नोति निर्वाणपदं परं सः ॥ ९ ॥ कोणस्थः पिंगलो बः कृष्णो
रौद्रान्तको यमः । सौरिः शनैश्चरो मन्दः पिप्लादेन संस्तुतः ॥ १० ।। एतानि दश
नामानि प्रातरुत्थाय यः पठेत् शनैश्चर कृतां पीडां न कदाचिद् भविष्यति ॥ ११ ॥ इति
श्री शनैश्चर स्तोत्रम् संपूर्णम् ॥