Blog Views

श्री वासुदेवानंद सरस्वती रचित गुरुस्तुति

****श्री वासुदेवानंद सरस्वती रचित गुरुस्तुति****

जो सत्य आहे परिपूर्ण आत्मा l जो नित्य राहे उदित प्रभात्मा l
ज्ञाने जयाच्या नर हो कृतार्थ l तो पूर्ण आनंद गुरु समर्थ ll १ ll

अखंड आत्मा अविनाशी दत्त l तया पदी लाविती जे स्वचित्त l
वित्तभ्रमा सोडिती ते कृतार्थ l l तो पूर्ण आनंद गुरु समर्थ ll २ ll

जो जागृतीस्वप्नसुषुप्तिसाक्षी l जो निर्विकारे सकलां निराक्षी l
विक्षी परी ज्यासी नसे निजार्थ l तो पूर्ण आनंद गुरु समर्थ ll ३ ll

जळीं स्थळी सर्वही वस्तुमाजी l व्यापुनी राहेची तयासी राजी l
जो ठेवि भावें नर हो कृतार्थ l तो पूर्ण आनंद गुरु समर्थ ll ४ ll

जें दृश्य ते रूप नसे जयाचे l दृश्यांत राहे अविकारी ज्याचे l
स्वरूप तोची अविनाशी अर्थ l तो पूर्ण आनंद गुरु समर्थ ll ५ ll

दृष्यासी घेतां नच घेववे जें l स्वरूप तथ्य प्रभुचें स्वतेजें l
स्वयेंप्रकाशे जगी जो परार्थ l तो पूर्ण आनंद गुरु समर्थ ll ६ ll

असोनी सर्वत्र गुरुप्रसादा l विना न लाभें करताही खेदा l
भेदाची वार्ता करी जो अपार्थ l तो पूर्ण आनंद गुरु समर्थ ll ७ ll

अनन्यभावें भजतां अनन्य l लभ्य प्रभू जो नच होयि अन्य l
सन्यस्त सर्वेषण तारणार्थ l तो पूर्ण आनंद गुरु समर्थ ll ८ ll

मागे तुकाराम तयासि दत्त l दे वासुदेवा करुनी निमित्त l
हें स्तोत्र चिन्मात्र पदासमर्थ l द्याया हराया सकलध्यनर्थ ll ९ ll

गाणगापुरी अठराशे सत्तावीस शकमधी l
उदेले स्तोत्र हे अधिव्याधि हारी हरी कुधी ll १० ll
ll इति श्रीमतपरमहंस परीव्राजकाचार्य
श्री वासुदेवानंद सरस्वती विरचितं गुरुस्तुति: संपूर्णम

संस्कृत आरती मारुतीची


संस्कृत आरती मारुतीची

जयदेव जयदेव मारुतिवरधीरा । आरति तव पदकमले भवतु मम सुधीरा ॥धृ०॥

अंजनिपुत्रं वन्दे वन्दे हरिवीरं । वन्दे वायुसुतं तं वन्दे रणधीरं ।
श्रीरामचन्द्रसीताशोकहरं शूरं । वन्दे शिवावतारं स्वभक्तसुखकारं ॥१॥

समुद्रतरणं लंकादहनं येन कृतं । इंद्रजिताध्वरहरणं कृतिना येन कृतं ।
सौमित्रिजीवनार्थं द्रोणगिरिं नीतं । वन्दे तं भगवन्तं हरिकुलहरिभक्तम् ॥२॥

अहिरावर्णमहिरावणरावणकुलनाशं । कृत्वा श्रीरामपदं घ्यात्वा भवनाशं ।
मत्वा श्रीरामंहृदं पाटितभुवनाशं । वन्दे तं हनुमन्तं स्वजनार्तिविनाशत् ॥३॥

यन्नाम्ना भवतरणं दुर्जनभयहरणं । असुरविषार्तिसुहरणं संसृतिहृज्ज्ञानं ।
भजकमनोरथपूर्णं धृतनामसुनामन् । वन्दे सुखाब्धिमग्नं नृसिंहयतिधीनम् ॥४॥

अशोककाका कुलकर्णी


शनि वज्र पञ्जर कवच

*शनि वज्र पञ्जर कवच*

*विनियोगः*-
ॐ अस्य श्रीशनैश्चर-कवच-स्तोत्र-मन्त्रस्य कश्यप ऋषिः,
अनुष्टुप् छन्द, शनैश्चरो देवता, शीं शक्तिः, शूं कीलकम्, शनैश्चर-प्रीत्यर्थं जपे विनियोगः।।

नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्।
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः।।१

*ब्रह्मोवाच-*

श्रृणुषवमृषयः सर्वे शनिपीड़ाहरं महप्।
कवचं शनिराजस्य सौरेरिदमनुत्तमम्।।२

कवचं देवतावासं वज्रपंजरसंज्ञकम्।
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम्।।३

ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनंदनः।
नेत्रे छायात्मजः पातु, पातु कर्णौ यमानुजः।।४

नासां वैवस्वतः पातु मुखं मे भास्करः सदा।
स्निग्ध-कंठस्च मे कंठं भुजौ पातु महाभुजः।।५

स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः।
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा।।६

नाभिं ग्रहपतिः पातु मंदः पातु कटि तथा।
ऊरु ममांतकः पातु यमो जानुयुग्म तथा।।७

पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः।
अंगोपांगानि सर्वाणि रक्षेन्मे सूर्यनन्दनः।।८

फलश्रुति

इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः।
न तस्य जायते पीडा प्रोतो भवति सूर्यजः।।९

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोऽपि वा।
कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः।।१०

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे।
कवचं पठते नित्यं न पीडा जायते क्वचित्।।११

इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा।
द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा।

जन्मलग्नस्थितान्दोषान् सर्वान्नाशयते प्रभुः।।१२

।।श्रीब्रह्माण्डपुराणे ब्रह्म-नारद-संवादे शनि-वज्र-पंजर-कवचं।।

श्रीजगदंबेची आरती


श्रीजगदंबेची आरती

जयदेवि जगदंब सचित्सुखमोर्ते । आरति पदकमले ते विमलेsखिलहृत्स्थे ॥धृ०॥

मूलाधारे वेदाधारे त्वां वन्दे । देवेडितसत्सेवितपदपद्मे सुखदे ।
भक्तमनोरथपूर्णे सत्कृतिपूर्णमुदे । मुदमर्पय मयि मातर्माधीशे परदे ॥१॥

सृष्टिस्थितिलयकारिणि दानवरिपुधात्री । शमदमसाधनदात्री वरदेशिकदात्री ।
छात्रीकृतर्षिसुरवरगणवन्दितसत्री । सप्तत्रिसप्तफलदे वेदविदां कत्रीं ॥२॥

अंब श्रीरेणूके मात: श्रीकाले । दुर्गे दुर्गमसंवित्सुखदे भवविमले ।
कमलाक्षी कमलोद्भवमातर्ज्ञानबले । अबले निधेहि मयि ते बलमीश्वरि सुबले ॥३॥

श्रीलक्ष्मी: श्रीगौरि वागीश्वरि मात: । तारय मां भवभीतं भीतजगत्यात: ।
भवहरिविधिविनुते निर्गुणगुणचेत: । विद्याविद्ये रूपे दर्शय मे मात: ॥४॥


श्री नवनागानांम् स्तोत्रंम


*अनंत वासुकींम् शेषं पद्मनाभं च कंम्बलम्  ||*
*शंखपालंम् ध्रत् राष्ट्रंचं तक्षकंम् कालियं तथा||*
*एतानि नव नामानि नागानांच महात्म्यना||*
*सायंकाले पठे नित्यं प्रातःकाले विशेषतः||*
*तस्य विष भयं नास्ती सर्वत्र विजयी भवेत||*
*इति श्री नवनागानांम्  स्तोत्रंम् संपूर्णम्||*

शालिग्रामस्तोत्रम्

शालिग्रामस्तोत्रम्

विनियोग
------------ अस्य श्रीशालिग्रामस्तोत्रमन्‍त्रस्य श्रीभगवान् ऋषिः, नारायणो देवता, अनुष्टुप् छन्दः,श्रीशालिग्रामस्तोत्रमन्‍त्रजपे विनियोगः ॥
युधिष्ठिर उवाच ।
---------------------
श्रीदेवदेव देवेश देवतार्चनमुत्तमम् ।
तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे पुरुषोत्तम ॥ १॥
श्रीभगवानुवाच ।
--------------------
गण्डक्यां चोत्तरे तीरे गिरिराजस्य दक्षिणे ।
दशयोजनविस्तीर्णा महाक्षेत्रवसुन्धरा ॥ २॥
शालिग्रामो भवेद्देवो देवी द्वारावती भवेत् ।
उभयोः सङ्गमो यत्र मुक्‍तिस्तत्र न संशयः ॥ ३॥
शालिग्रामशिला यत्र यत्र द्वारावती शिला ।
उभयोः सङ्गमो यत्र मुक्‍तिस्तत्र न संशयः ॥ ४॥
आजन्मकृतपापानां प्रायश्चित्तं य इच्छति ।
शालिग्रामशिलावारि पापहारि नमोऽस्तु ते ॥ ५॥
अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।
विष्णोः पादोदकं पीत्वा शिरसा धारयाम्यहम् ॥ ६॥
शङ्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि ।
अङ्गलग्नं मनुष्याणां ब्रह्महत्यादिकं दहेत् ॥ ७॥
स्‍नानोदकं पिवेन्नित्यं चक्राङ्कितशिलोद्भवम् ।
प्रक्षाल्य शुद्धं तत्तोयं ब्रह्महत्यां व्यपोहति ॥ ८॥
अग्निष्टोमसहस्राणि वाजपेयशतानि च ।
सम्यक् फलमवाप्नोति विष्णोर्नैवेद्यभक्षणात् ॥ ९॥
नैवेद्ययुक्‍तां तुलसीं च मिश्रितां विशेषतः पादजलेन विष्णोः ।
योऽश्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥ १०॥
खण्डिताः स्फुटिता भिन्ना वन्हिदग्धास्तथैव च ।
शालिग्रामशिला यत्र तत्र दोषो न विद्यते ॥ ११॥
न मन्‍त्रः पूजनं नैव न तीर्थं न च भावना ।
न स्तुतिर्नोपचारश्च शालिग्रामशिलार्चने ॥ १२॥
ब्रह्महत्यादिकं पापं मनोवाक्कायसम्भवम् ।
शीघ्रं नश्यति तत्सर्वं शालिग्रामशिलार्चनात् ॥ १३॥
नानावर्णमयं चैव नानाभोगेन वेष्टितम् ।
तथा वरप्रसादेन लक्ष्मीकान्तं वदाम्यहम् ॥ १४॥
नारायणोद्भवो देवश्चक्रमध्ये च कर्मणा ।
तथा वरप्रसादेन लक्ष्मीकान्तं वदाम्यहम् ॥ १५॥
कृष्णे शिलातले यत्र सूक्ष्मं चक्रं च दृश्यते ।
सौभाग्यं सन्ततिं धत्ते सर्व सौख्यं ददाति च ॥ १६॥
वासुदेवस्य चिह्नानि दृष्ट्वा पापैः प्रमुच्यते ।
श्रीधरः सुकरे वामे हरिद्वर्णस्तु दृश्यते ॥ १७॥
वराहरूपिणं देवं कूर्माङ्गैरपि चिह्नितम् ।
गोपदं तत्र दृश्येत वाराहं वामनं तथा ॥ १८॥
पीतवर्णं तु देवानां रक्‍तवर्णं भयावहम् ।
नारसिंहो भवेद्देवो मोक्षदं च प्रकीर्तितम् ॥ १९॥
शङ्खचक्रगदाकूर्माः शङ्खो यत्र प्रदृश्यते ।
शङ्खवर्णस्य देवानां वामे देवस्य लक्षणम् ॥ २०॥
दामोदरं तथा स्थूलं मध्ये चक्रं प्रतिष्ठितम् ।
पूर्णद्वारेण सङ्कीर्णा पीतरेखा च दृश्यते ॥ २१॥
छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियः ।
चिपिटे च महादुःखं शूलाग्रे तु रणं ध्रुवम् ॥ २२॥
ललाटे शेषभोगस्तु शिरोपरि सुकाञ्‍चनम् ।
चक्रकाञ्‍चनवर्णानां वामदेवस्य लक्षणम् ॥ २३॥
वामपार्श्वे च वै चक्रे कृष्णवर्णस्तु पिङ्गलम् ।
लक्ष्मीनृसिंहदेवानां पृथग्वर्णस्तु दृश्यते ॥ २४॥
लम्बोष्ठे च दरिद्रं स्यात्पिङ्गले हानिरेव च ।
लग्नचक्रे भवेद्याधिर्विदारे मरणं ध्रुवम् ॥ २५॥
पादोदकं च निर्माल्यं मस्तके धारयेत्सदा ।
विष्णोर्द्दष्टं भक्षितव्यं तुलसीदलमिश्रितम् ॥ २६॥
कल्पकोटिसहस्राणि वैकुण्ठे वसते सदा ।
शालिग्रामशिलाबिन्दुर्हत्याकोटिविनाशनः ॥ २७॥
तस्मात्सम्पूजयेद्ध्यात्वा पूजितं चापि सर्वदा ।
शालिग्रामशिलास्तोत्रं यः पठेच्च द्विजोत्तमः ॥ २८॥
स गच्छेत्परमं स्थानं यत्र लोकेश्वरो हरिः ।
सर्वपापविनिर्मुक्‍तो विष्णुलोकं स गच्छति ॥ २९॥
दशावतारो देवानां पृथग्वर्णस्तु दृश्यते ।
ईप्सितं लभते राज्यं विष्णुपूजामनुक्रमात् ॥ ३०॥
कोट्यो हि ब्रह्महत्यानामगम्यागम्यकोटयः ।
ताः सर्वा नाशमायान्ति विष्णुनैवेद्यभक्षणात् ॥ ३१॥
विष्णोः पादोदकं पीत्वा कोटिजन्माघनाशनम् ।
तस्मादष्टगुणं पापं भूमौ बिन्दुनिपातनात् ॥ ३२॥
। इति श्रीभविष्योत्तरपुराणे श्रीकृष्णयुधिष्ठिरसंवादे शालिग्रामस्तोत्रं सम्पूर्णम् ।.

प्रातः स्मरण

प्रातः स्मरण

  अश्वत्थामा बलिर्व्यासो हनुमांश्च बिभीषण: ।कृपा परशुरामश्च सत्पैते चिरंजीविन: ॥

जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।दयावति नमस्तुभ्यं विश्र्वेश्र्वरि नमोऽस्तु ते ॥

बलिर्बिभीषणो भीष्म: प्रल्हादो नारदो ध्रुव: ।षडैते वैष्णवास्तेषां स्मरणं पापनाशनम् ॥

अहल्या द्रोपदी सीता तारा मन्दोदरी तथा ।पंचकन्या स्मरेन्नित्यं महापातकनाशनम् ॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजय: ।यषामिन्दीवरश्यामो हृदयस्थो जनार्दन: ॥

सदा सर्वदा योग तुझा घडावा ।तुझे कारणी देह माझा पडावा ।उपेक्षु नको गुणवंता अनंता ।रघुनायका मागणॆ हेचि आता ॥

ब्रह्मा मुरारिस त्रिपुरांतकारी , भानु: शशी भूमिसुतो बुधश्र्चगुरुश्र्च शुक्र: शनिराहुकेतव: , कुर्वंतु सर्वि मम सुप्रभातम् ॥सनत्कुमार: सनक: सनंदन: सनातनोप्यासुरिपिंगलौ च ।सप्तस्वर: सप्तरसातलानि । कुर्वंतु सर्वे मम सुप्रभातम्॥

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनं ।उज्जयिन्यां महाकालमोकारममलेश्र्वरम् ॥परल्यां वैजनाथं च डाकिन्या भीमशंकरम् ।सेतुबंधे तु रामेशं नागेशं दारुकावने ॥वाराण्स्यां तु विश्र्वेंशं त्र्यंबकं गौतमीतटे ।हिमालये तु केदारं घुसृणेशं शिवालये ॥एतानि ज्योतिर्लिंगानि सांय प्रात: पठेन्नर: ।सत्पजन्मकृतं पापं स्मरणेन विनश्यति ॥

पृथ्वी संगधा, ससस्तथाप:स्पर्शी च वायु: ज्वलनं च तेज: ।नभ: सशब्दं महता सहैवकुर्वंतु सर्वे मम सुप्रभातम् ॥

इत्थं प्रभाते परमं पवित्रं पठेत् , स्मरेव्दा श्रुणुयाच्च तव्दत् ।दु:स्वप्ननाशस्त्विह सुप्रभातम् भवेच्च नित्यं भवरत्प्रसादन् ॥

सर्वेऽत्र सुखिन: सत्नु सर्वे सत्नु निरामया:सर्वे भद्राणि पश्यन्तु मा कश्चिदु:खमाप्नुयात् ॥

मनोजवं मारुततुल्यवेगं । जितेन्द्रियं बुद्धिमतां वरिष्ठम् ॥वातात्मजं वानरयूथमुख्यम् । श्री रामदूतं शरणं प्रपद्ये॥

गणाधीश जो ईश सर्वागुणांचा मूळारंभ आरंभ तो निर्गुणांचा नमू शारदा मूळ चत्वार वाचा गमू पंथ आनंद तो या राघवाचा ॥

कैलासरणा शिव चंद्रामौळी ।फणीद्रं माथा मुकुटीं झळाळी ।करुण्यसिंधु भवदु:खहारी ।तुजवीण शंभो मज कोण तारी ॥

गोरक्ष जालंदर चर्पटाश्चअडबंग कानिफ मच्छिंद्रराद्या: ।चौरंगी रेवाणक भर्त्री संज्ञाभूम्यां बभूवुर्नवनाथ सिद्धा: ॥

सर्व मंगलमांगल्ये शिवे सर्वार्थसाधिके ।शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुते ॥

ज्या ज्या ठिकाणी मन जाय माझे ।त्या त्या ठिकाणी निजरुप तुझे ।मी ठेवितो मस्तक ज्या ठिकाणी ।तेथे तुझे सद्गुरु पाय दोन्ही ॥

कृष्णाय वासुदेवाय हरये परमात्मने ।प्रणतक्लेशनाशाय गोविंदाय नमो नम: ॥

जयाच्या शिरी केशरी रंग शोभे ।दुजा पांढरा पाहता चित्त लोभे ।हिरवा तिजा देई शांती मनाला ।सदा ठेवू चित्ती तिरंगा ध्वजाला ॥

गोविंदा गोपाळा कृष्णा विष्णू मुकुंद घननीळा ।धृतकौस्तुभवनमाळा पीतांबरधारि देवकी बाळा ॥श्रीरामा पुरुषोत्तमा नरहरे नारायणा केशवा ।गोविंदा गरुडध्वजा गुणनिधे दामोदरा माधवा ॥श्रीकृष्णा कमलापते यदुपते सीतापते श्रीपते।वैकुण्ठाधिपते चराचरपते लक्ष्मीपते त्राहि माम् ॥कृष्णाय वासुदेवाय हरये परमात्मने ।प्रणतक्लेशनाशाय गोविन्दाय नमो नम: ॥

कूजन्तम् रामरामेति मधुरम् मधुराक्षरम् ।आरुह्य कविताशाखां । वन्दे वाल्मिकीकोकिलम् ॥

नेत्री दोन हिरे, प्रकाश पसरे अत्यंत ते साजिरे ।माथा शेंदूर पाझरे वरी बरे , दुर्वांकुरांचे तुरे ॥माझे चित्त विरे , मनोरथ पुरे , देखोनि चिंता हरे ।गोसाविसुत वासुदेव कवि रे, त्या मोरयाला स्मरे ॥

मोरया मोरया मी बाळ तान्हे ।तुझीच सेवा करु काय जाणे ॥अपराध माझे कोट्यानु कोटी ।मोरेश्र्वरा बा तू घाल पोटी ॥

हरीच्या करी एक रंगीत काठी ।हरी उभा राहिला भीवरे वाळवंटी ।तुरा खोविला तुळशी मंजिरीचा ।असा विठ्ठल देखिला पंढरीचा ॥

गुरुर्ब्रह्मा: गुरुर्विष्णु: गुरुर्देवो महेश्र्वर: ।गुरु: साक्षात्परब्रह्म तस्मै श्रीगुरवे नम: ॥

शिव भवानि रुद्राणि, शर्वाणि सर्व मंगलाअपर्णा , पार्वती ,दुर्गा मृडानि चंडिकाबिका ॥

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

बेलपत्र वाहताना म्हणावयाचे १०८ मंत्र

बेलपत्र वाहताना म्हणावयाचे १०८ मंत्र

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥१॥

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥२॥

सर्वत्रैलोक्यकर्तारं सर्वत्रैलोक्यपालनम् ।
सर्वत्रैलोक्यहर्तारं एकबिल्वं शिवार्पणम् ॥३॥

नागाधिराजवलयं नागहारेण भूषितम् ।
नागकुण्डलसंयुक्तं एकबिल्वं शिवार्पणम् ॥४॥

अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभम् ।
चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥५॥

त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम् ।
विभूत्यभ्यर्चितं देवं एकबिल्वं शिवार्पणम् ॥६॥

त्रिशूलधारिणं देवं नागाभरणसुन्दरम् ।
चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥७॥

गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितम् ।
कालकालं गिरीशं च एकबिल्वं शिवार्पणम् ॥८॥

शुद्धस्फटिक सङ्काशं शितिकण्ठं कृपानिधिम् ।
सर्वेश्वरं सदाशान्तं एकबिल्वं शिवार्पणम् ॥९॥

सच्चिदानन्दरूपं च परानन्दमयं शिवम् ।
वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणम् ॥१०॥

शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम् ।
हिरण्यबाहुं सेनान्यं एकबिल्वं शिवार्पणम् ॥११॥

अरुणं वामनं तारं वास्तव्यं चैव वास्तवम् ।
ज्येष्टं कनिष्ठं गौरीशं एकबिल्वं शिवार्पणम् ॥१२॥

हरिकेशं सनन्दीशं उच्चैर्घोषं सनातनम् ।
अघोररूपकं कुम्भं एकबिल्वं शिवार्पणम् ॥१३॥

पूर्वजावरजं याम्यं सूक्ष्मं तस्करनायकम् ।
नीलकण्ठं जघन्यं च एकबिल्वं शिवार्पणम् ॥१४॥

सुराश्रयं विषहरं वर्मिणं च वरूधिनम् I
महासेनं महावीरं एकबिल्वं शिवार्पणम् ॥१५॥

कुमारं कुशलं कूप्यं वदान्यञ्च महारथम् ।
तौर्यातौर्यं च देव्यं च एकबिल्वं शिवार्पणम् ॥१६॥

दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम् ।
अशेषपापसंहारं एकबिल्वं शिवार्पणम् ॥१७॥

नीलकण्ठं जगद्वन्द्यं दीननाथं महेश्वरम् ।
महापापसंहारं एकबिल्वं शिवार्पणम् ॥१८॥

चूडामणीकृतविभुं वलयीकृतवासुकिम् ।
कैलासवासिनं भीमं एकबिल्वं शिवार्पणम् ॥१९॥

कर्पूरकुन्दधवलं नरकार्णवतारकम् ।
करुणामृतसिन्धुं च एकबिल्वं शिवार्पणम् ॥२०॥

महादेवं महात्मानं भुजङ्गाधिपकङ्कणम् ।
महापापहरं देवं एकबिल्वं शिवार्पणम् ॥२१॥

भूतेशं खण्डपरशुं वामदेवं पिनाकिनम् ।
वामे शक्तिधरं श्रेष्ठं एकबिल्वं शिवार्पणम् ॥२२॥

फालेक्षणं विरूपाक्षं श्रीकण्ठं भक्तवत्सलम् ।
नीललोहितखट्वाङ्गं एकबिल्वं शिवार्पणम् ॥२३॥

कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम् ।
वृषाङ्कं वृषभारूढं एकबिल्वं शिवार्पणम् ॥२४॥

सामप्रियं सर्वमयं भस्मोद्धूलितविग्रहम् ।
मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम् ॥२५॥

दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम् ।
मृगपाणिं चन्द्रमौळिं एकबिल्वं शिवार्पणम् ॥२६॥

सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम् ।
निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणम् ॥२७॥

सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम् ।
सर्वतत्त्वस्वरूपं च एकबिल्वं शिवार्पणम् ॥२८॥

सर्वलोकगुरुं स्थाणुं सर्वलोकवरप्रदम् ।
सर्वलोकैकनेत्रं च एकबिल्वं शिवार्पणम् ॥ II२९॥

मन्मथोद्धरणं शैवं भवभर्गं परात्मकम् ।
कमलाप्रियपूज्यं च एकबिल्वं शिवार्पणम् ॥३०॥

तेजोमयं महाभीमं उमेशं भस्मलेपनम् ।
भवरोगविनाशं च एकबिल्वं शिवार्पणम् ॥ II३१॥

स्वर्गापवर्गफलदं रघुनाथवरप्रदम् ।
नगराजसुताकान्तं एकबिल्वं शिवार्पणम् ॥३२॥

मञ्जीरपादयुगलं शुभलक्षणलक्षितम् ।
फणिराजविराजं च एकबिल्वं शिवार्पणम् ॥३३॥

निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम् ।
तेजोरूपं महारौद्रं एकबिल्वं शिवार्पणम् ॥ II३४॥

सर्वलोकैकपितरं सर्वलोकैकमातरम् ।
सर्वलोकैकनाथं च एकबिल्वं शिवार्पणम् ॥३५॥

चित्राम्बरं निराभासं वृषभेश्वरवाहनम् ।
नीलग्रीवं चतुर्वक्त्रं एकबिल्वं शिवार्पणम् ॥३६॥

रत्नकञ्चुकरत्नेशं रत्नकुण्डलमण्डितम् ।
नवरत्नकिरीटं च एकबिल्वं शिवार्पणम् ॥ II३७॥

दिव्यरत्नाङ्गुलीस्वर्णं कण्ठाभरणभूषितम् ।
नानारत्नमणिमयं एकबिल्वं शिवार्पणम् ॥ II३८॥

रत्नाङ्गुलीयविलसत्करशाखानखप्रभम् ।
भक्तमानसगेहं च एकबिल्वं शिवार्पणम् ॥ II३९॥

वामाङ्गभागविलसदम्बिकावीक्षणप्रियम् ।
पुण्डरीकनिभाक्षं च एकबिल्वं शिवार्पणम् ॥४०॥

सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणम् ।
सौभाग्यदं हितकरं एकबिल्वं शिवार्पणम् ॥४१॥

नानाशास्त्रगुणोपेतं स्फुरन्मङ्गल विग्रहम् ।
विद्याविभेदरहितं एकबिल्वं शिवार्पणम् ॥ II४२॥

अप्रमेयगुणाधारं वेदकृद्रूपविग्रहम् ।
धर्माधर्मप्रवृत्तं च एकबिल्वं शिवार्पणम् ॥ II४३॥

गौरीविलाससदनं जीवजीवपितामहम् ।
कल्पान्तभैरवं शुभ्रं एकबिल्वं शिवार्पणम् ॥४४॥

सुखदं सुखनाशं च दुःखदं दुःखनाशनम् ।
दुःखावतारं भद्रं च एकबिल्वं शिवार्पणम् ॥४५॥

सुखरूपं रूपनाशं सर्वधर्मफलप्रदम् ।
अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम् ॥४६॥

सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम् ।
सर्वपक्षिमृगाधारं एकबिल्वं शिवार्पणम् ॥ II४७॥

जीवाध्यक्षं जीववन्द्यं जीवजीवनरक्षकम् ।
जीवकृज्जीवहरणं एकबिल्वं शिवार्पणम् ॥४८॥

विश्वात्मानं विश्ववन्द्यं वज्रात्मावज्रहस्तकम् ।
वज्रेशं वज्रभूषं च एकबिल्वं शिवार्पणम् ॥ II४९॥

गणाधिपं गणाध्यक्षं प्रलयानलनाशकम् ।
जितेन्द्रियं वीरभद्रं एकबिल्वं शिवार्पणम् ॥५०॥

त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनम् ।
दिगम्बरं क्षोभनाशं एकबिल्वं शिवार्पणम् ॥५१॥

कुन्देन्दुशङ्खधवलं भगनेत्रभिदुज्ज्वलम् ।
कालाग्निरुद्रं सर्वज्ञं एकबिल्वं शिवार्पणम् ॥५२॥

कम्बुग्रीवं कम्बुकण्ठं धैर्यदं धैर्यवर्धकम् ।
शार्दूलचर्मवसनं एकबिल्वं शिवार्पणम् ॥ II५३॥

जगदुत्पत्तिहेतुं च जगत्प्रलयकारणम् ।
पूर्णानन्दस्वरूपं च एकबिल्वं शिवार्पणम् ॥५४॥

सर्गकेशं महत्तेजं पुण्यश्रवणकीर्तनम् ।
ब्रह्माण्डनायकं तारं एकबिल्वं शिवार्पणम् ॥५५॥

मन्दारमूलनिलयं मन्दारकुसुमप्रियम् ।
बृन्दारकप्रियतरं एकबिल्वं शिवार्पणम् ॥ II५६॥

महेन्द्रियं महाबाहुं विश्वासपरिपूरकम् ।
सुलभासुलभं लभ्यं एकबिल्वं शिवार्पणम् ॥ ५७॥

बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम् ।
परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ II५८॥

युगाकारं युगाधीशं युगकृद्युगनाशनम् ।
परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ II५९॥

धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम् ।
कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणम् ॥ II६०॥

सुरावासं जनावासं योगीशं योगिपुङ्गवम् ।
योगदं योगिनां सिंहं एकबिल्वं शिवार्पणम् ॥६१॥

उत्तमानुत्तमं तत्त्वं अन्धकासुरसूदनम् ।
भक्तकल्पद्रुमस्तोमं एकबिल्वं शिवार्पणम् ॥६२॥

विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम् ।
विष्णुब्रह्मादि वन्द्यं च एकबिल्वं शिवार्पणम् ॥६३॥

कुमारं पितरं देवं श्रितचन्द्रकलानिधिम् ।
ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणम् ॥६४॥

लावण्यमधुराकारं करुणारसवारधिम् ।
भ्रुवोर्मध्ये सहस्रार्चिं एकबिल्वं शिवार्पणम् ॥६५॥

जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम् ।
कामदं सर्वदागम्यं एकबिल्वं शिवार्पणम्  II६६॥

शिवं शान्तं उमानाथं महाध्यानपरायणम् ।
ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥६७॥

वासुक्युरगहारं च लोकानुग्रहकारणम् ।
ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥६८॥

शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम् I
शुद्धं च शाश्वतं नित्यं एकबिल्वं शिवार्पणम् ॥६९॥

शरणागतदीनार्तपरित्राणपरायणम् ।
गम्भीरं च वषट्कारं एकबिल्वं शिवार्पणम् ॥७०॥

भोक्तारं भोजनं भोज्यं जेतारं जितमानसम् I
करणं कारणं जिष्णुं एकबिल्वं शिवार्पणम् ॥७१॥

क्षेत्रज्ञं क्षेत्रपालञ्च परार्धैकप्रयोजनम् ।
व्योमकेशं भीमवेषं एकबिल्वं शिवार्पणम् ॥७२॥

भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनम् ।
हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम् ॥७३॥

दक्षं चामुण्डजनकं मोक्षदं मोक्षनायकम् ।
हिरण्यदं हेमरूपं एकबिल्वं शिवार्पणम् ॥ II७४॥

महाश्मशाननिलयं प्रच्छन्नस्फटिकप्रभम् ।
वेदास्यं वेदरूपं च एकबिल्वं शिवार्पणम् ॥ II७५॥

स्थिरं धर्मं उमानाथं ब्रह्मण्यं चाश्रयं विभुम् I
जगन्निवासं प्रथममेकबिल्वं शिवार्पणम् ॥ II७६॥

रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम् ।
रुद्राक्षभक्तसंस्तोममेकबिल्वं शिवार्पणम् ॥७७॥

फणीन्द्रविलसत्कण्ठं भुजङ्गाभरणप्रियम् I
दक्षाध्वरविनाशं च एकबिल्वं शिवार्पणम् ॥७८॥

नागेन्द्रविलसत्कर्णं महीन्द्रवलयावृतम् ।
मुनिवन्द्यं मुनिश्रेष्ठमेकबिल्वं शिवार्पणम् ॥ II७९॥

मृगेन्द्रचर्मवसनं मुनीनामेकजीवनम् ।
सर्वदेवादिपूज्यं च एकबिल्वं शिवार्पणम् ॥ II८०॥

निधनेशं धनाधीशं अपमृत्युविनाशनम् ।
लिङ्गमूर्तिमलिङ्गात्मं एकबिल्वं शिवार्पणम् ॥८१॥

भक्तकल्याणदं व्यस्तं वेदवेदान्तसंस्तुतम् ।
कल्पकृत्कल्पनाशं च एकबिल्वं शिवार्पणम् ॥८२॥

घोरपातकदावाग्निं जन्मकर्मविवर्जितम् ।
कपालमालाभरणं एकबिल्वं शिवार्पणम् ॥८३॥

मातङ्गचर्मवसनं विराड्रूपविदारकम् ।
विष्णुक्रान्तमनन्तं च एकबिल्वं शिवार्पणम् ॥८४॥

यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम् ।
यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणम् ॥ II८५॥

कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम् ।
योगिमानसपूज्यं च एकबिल्वं शिवार्पणम् ॥८६॥

महोन्नतमहाकायं महोदरमहाभुजम् ।
महावक्त्रं महावृद्धं एकबिल्वं शिवार्पणम् ॥८७॥

सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् ।
महेश्वरं शिवतरं एकबिल्वं शिवार्पणम् II८८॥

समस्तजगदाधारं समस्तगुणसागरम् ।
सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणम् ॥ ८९॥

माघकृष्णचतुर्दश्यां पूजार्थं च जगद्गुरोः ।
दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम् ॥९०॥

तत्रापि दुर्लभं मन्येत् नभोमासेन्दुवासरे ।
प्रदोषकाले पूजायां एकबिल्वं शिवार्पणम् ॥९१॥

तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम्
कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥९२॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एकबिल्वं शिवार्पणम् II९३॥

तुलसीबिल्वनिर्गुण्डी जम्बीरामलकं तथा ।
पञ्चबिल्वमिति ख्यातं एकबिल्वं शिवार्पणम् ॥९४॥

अखण्डबिल्वपत्रैश्च पूजयेन्नन्दिकेश्वरम् ।
मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥९५॥

सालङ्कृता शतावृत्ता कन्याकोटिसहस्रकम् ।
साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥९६॥

दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम् ।
सवत्सधेनुदानानि एकबिल्वं शिवार्पणम् II९७॥

चतुर्वेदसहस्राणि भारतादिपुराणकम् ।
साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥९८॥

सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम् ।
तुलाभागं शतावर्तं एकबिल्वं शिवार्पणम् ॥९९॥

अष्टोत्तरश्शतं बिल्वं योऽर्चयेल्लिङ्गमस्तके ।
अधर्वोक्तं अधेभ्यस्तु एकबिल्वं शिवार्पणम् ॥१००॥

काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।
अघोरपापसंहारं एकबिल्वं शिवार्पणम् II१०१॥

अष्टोत्तरशतश्लोकैः स्तोत्राद्यैः पूजयेद्यथा ।
त्रिसन्ध्यं मोक्षमाप्नोति एकबिल्वं शिवार्पणम् ॥१०२॥

दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकम्
सर्वक्रतुमयं पुण्यं एकबिल्वं शिवार्पणम् II१०३॥

पुत्रपौत्रादिकं भोगं भुक्त्वा चात्र यथेप्सितम् ।
अन्ते च शिवसायुज्यं एकबिल्वं शिवार्पणम् ॥१०४॥

विप्रकोटिसहस्राणां वित्तदानाच्च यत्फलम् ।
तत्फलं प्राप्नुयात्सत्यं एकबिल्वं शिवार्पणम् ॥१०५॥

त्वन्नामकीर्तनं तत्त्वं तवपादाम्बु यः पिबेत्
जीवन्मुक्तोभवेन्नित्यं एकबिल्वं शिवार्पणम् ॥१०६॥

अनेकदानफलदं अनन्तसुकृतादिकम् ।
तीर्थयात्राखिलं पुण्यं एकबिल्वं शिवार्पणम् ॥१०७॥

त्वं मां पालय सर्वत्र पदध्यानकृतं तव ।
भवनं शाङ्करं नित्यं एकबिल्वं शिवार्पणम् ॥१०८॥

श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs